विश्वकोशः

यस्मिन् लोके विद्यमानाः प्रायेण सर्वेऽपि विषयाः व्यवस्थितरूपेण निरूपिताः भवन्ति सः विश्वकोषः इत्युच्यते। [१]

Encyclopaedia Britannica 15 with 2002
ब्रिटानिक् इङ्ग्लिष् विश्वकोषस्य १५तमी आवृत्तिः। (क्रि.श १९७४-२०१०)
Acer Aspire 8920 Gemstone
अद्यत्वे सङ्गणके अन्तर्जालद्वारा प्राप्तुं शक्यः विश्वकोषः

व्युत्पत्तिः

विश्वकोषः [आङ्लम्: Encyclopedia / Encyclopaedia एन्^सैक्ल(/सैक्लो)पीडिअ] इति विश्वे विद्यमानां सर्वेषां विषयाणां कोषः।

इतिहासः

Naturalishistoria
Naturalis Historiæ - १६६९ तमावृत्त्याः शीर्षकपुटम्
  • विश्वकोषसदृशाः ग्रन्थाः प्रायेण २००० वर्षेभ्यः प्राक् अपि आसन्। क्रि.पू ११६ तमे वर्षे रोम्-देशस्य मार्कस् टेरेन्सि अस्-वारो(Marcus Terentius Varro) इत्येषः नैन् बुक्स् आफ डिसिप्लीन्स्(Nine Books of Disciplines) इति विश्वकोषसदृशं ग्रन्थम् अरचयत्। एषः ग्रन्थः विश्वकोषकर्तॄणां मार्गदर्शकः अभवत्।
  • क्रि.श ७७-७८ तमे वर्षे रोम् देशस्य फ्लिनि दि एल्डर्(Pliny the Elder) इत्येषः न्याचुरल् हिस्टरी(Natural History, Naturalis Historia) इति विश्वकोषं रचितवान्। क्रि.श ८०० तमे वर्षे विरचिते चीना-देशस्य टुयु इत्येतस्य विश्वकोषे विषयाः व्यवस्थितरूपेण विभक्ताः आसन्।
  • क्रि.श ९४७-१००२ वर्षेषु चीना-देशस्य उषु इत्येषः ३० भागात्मकं विश्वकोषं व्यरचयत्। आधुनिकविश्वकोषाणां रचनं १७-१८ शतमानकाले आरब्धम्।
Britannica 1. baskı
ब्रिटानिक् इंग्लिष् विश्वकोषस्य प्रथमा आवृत्तिः। (क्रि.श १७६८-१७७१)
Brockhaus Lexikon
Brockhaus Konversations Lexikon - जर्मन् विश्वकोषस्य १४तमावृत्तिः। (१८९६–१९०८)

प्रसिद्धाः विश्वकोषाः

  • एन्सैक्लोपीडिया ब्रिटानिका: एषः आधुनिकविश्वकोषेषु प्राचीनतमः। एतस्य प्रथमा आवृत्तिः १७६८ तमे वर्षे प्रकाशिता।
  • विकिपीडिया: एषः कश्चन अन्तर्जाल-आधारितः विश्वकोषः। अत्र अनेकासु भाषासु लेखाः समुपलभ्यन्ते। आङ्लभाषायामेव प्रायः ४.७ दशलक्षं लेखाः वर्तन्ते।

भारते विश्वकोषाणां संरचनम्

  1. पौराणिकविषयैः सह वैद्यकीयं, व्याकरणं, ज्यौतिषं, नाट्यं, सङ्गीतेत्यादयः विषयाः गरुडपुराणे, अग्निपुराणे नारदपुराणे च विद्यन्ते। एते ग्रन्थाः वाङ्मयकोषाः इत्युच्यन्ते।
  2. 'षड्दर्शनसमुच्चयः' इत्येषः आयुर्वेदग्रन्थोऽपि विश्वकोषकल्पः। आग्नेयपुराणम् सर्वविद्यासङ्ग्रह इति नाम्ना विश्वकोषस्वरूपतां भजते।
  3. क्रि.श १९०२-१९११ वर्षे बेङ्गालिभाषया रङ्गनाथमुखर्जी एवं नागेन्द्रनाथबसु इत्याभ्यां विरचितः २२ सम्पुटात्मकः विश्वकोषः भारतस्य प्रथमः विश्वकोषः इति कीर्तिभाक् भवति।
  4. क्रि.श १९१३ तमे वर्षे कोमराजु वेङ्कटलक्ष्मणराव् इत्येषः तेलुगुभाषया विश्वकोषं प्रकाशयितुं प्रायतत।
  5. क्रि.श १९६२ तमे वर्षे चेन्नै नगरतः ९ सम्पुटात्मकः विश्वकोषः तमिळुभाषया प्रकाशितः।
  6. क्रि.श१९७२ तमे वर्षे केरळतः सर्वविज्ञानकोषम् इति २० सम्पुटात्मकः विश्वकोषः प्रकाशितः।

टिप्पणी

  1. विश्वकोषानुसारं १) www.oxforddictionaries.com/definition/english/encyclopedia,
    २) dictionary.cambridge.org/dictionary/british/encyclopedia,
    ३) www.britannica.com/EBchecked/topic/186603/encyclopaedia

उद्धरणम्

बाह्यसम्पर्कतन्तुः

अकोलामण्डलम्

अकोलामण्डलं (मराठी: अकोला जिल्हा, आङ्ग्ल: Akola District) महाराष्ट्रराज्ये विद्यमानं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अकोला इत्येतन्नगरम् । 'विदर्भ' इति महाराष्ट्रराज्यस्य विभागे वर्तमानेषु मण्डलेषु अन्यतमं मण्डलमिदम् ।

अपि

अपि इत्यव्ययविचारः

अमरसिंहः

अमरसिंहः उज्जैनी नगरे विक्रमादित्यस्य सभायां नवरत्नेषु एकः आसीत्। सः अमरकोषस्य कर्ता आसीत्।

अमरसिंहः (Amarsimha) तस्य अमरकोशः इति कोशेनैव विश्वप्रसिद्धः अस्ति । संस्कृतवाङ्मये ईदानीमपि शब्दकोशस्य अनन्यः ग्रन्थः अमरकोशः इति प्रसिद्धः नामलिङ्गानुशासनम् । कि.श.३७५तमे वर्षे कविः व्याकरणज्ञः चन्द्रगुप्तविक्रमादित्यस्य आस्थाने आसीत् । अस्य जीवनविषये विशेषज्ञानम् उपलब्धं नास्ति । अमरसिंहः मूलतः बौद्धमतानुयायी इति वदन्ति । तस्य अपूर्वा कृतिः नामालिङ्गानुशासनम् एव सर्वसंस्कृताध्येतॄणां प्रमाणभूतः विश्वकोशः । एतस्मिन् ग्रन्थे त्रयः काण्डाः दशसहस्रपदानि व्यवस्थितानि । स्मृतिपथे रक्षणस्य आनुकूल्यार्थे सर्वे श्लोकरूपेण सन्ति । क्रि.श.१७९८तमे वर्षे अमरकोशः प्रथमतः तमिळुलिप्या रोम् नगरे मुद्रापितः । क्रि.श.१९२७तमे वर्षे कन्नडभाषया अपि चतुर्थवारं प्रकाशिते अस्मिन् ग्रन्थे त्रयः काण्डाः २५सर्गाः सन्ति ।

अर्विन श्रोडिन्गर

सः विख्यातः वैज्ञानिकः।

जीवनी

आस्थाननवरत्नानि

क्रि.पू. ५७तमे वर्षे विक्रमादित्यः शकान् पराजित्य उज्जयिनीं वशीकृतवान् । उज्जयिन्याम् अस्य आस्थाने नवरत्नानि इति प्रसिद्धाः नव कोविदाः कवयः आसन् | ते धन्वन्तरी, क्षपणकः, अमरसिंहः, शङ्कुः, वेतालभट्टः, घटकर्परः, कालिदासः, वराहमिहिरः, वररुचिः च, श्रेष्ठाः कवयः महान्तः वैद्याः, विज्ञानिनः, खगोलशास्त्रज्ञाः च आसन् ।

के शिवराम कारन्त

शिवराम कारन्तः(अक्टोबर् १०, १९०२ - सेप्टम्बर् १२, १९९७)Kota Shivaram Karanth - सागरतीरभार्गवः, चलन् विश्वकोशः इत्येव ख्यातः कन्नडभाषायाः साहित्यसंस्कृतेः वक्ता कविः कथाग्रन्थकर्ता च ।

गुजरातीभाषा

गुजराती(ગુજરાતી)(Gujarathi) भाषा भारतस्य राज्याङ्गे उल्लिखितासु पञ्चदशसु भाषासु अन्यतमा । गुजरातराज्यस्य राज्यभाषा । भारतदेशस्य विविधेषु भागेषु एशिया-आफ्रिकाखण्डेषु च गुजरातभाषाभाषिणः निवसन्ति । ६५,५०,००,००० जनाः गुजरातिभाषया भाषन्ते । इयं भाषा भारतीय-आर्यभाषासु अन्यतमा । गुजरातराज्यस्य पूर्वसीमायाम् ईशान्यसीमायां च राजस्थानीभाषा विद्यते इत्यतः अनयोः भाषयोः सङ्गमनं दृश्यते । अधिकतया भाषमाणासु भाषासु २६ तमे स्थाने विद्यन्ते इयं भाषा । महात्मा गान्धिः, सरदार् वल्लभभायी पटेलः, स्वामी दयानन्दसरस्वती, मोरारजी देसायी, जे.आर्.डि.टाटा, धीरूभाई अंबानी, महम्मद् आलि जिन्ना इत्येतादृशानां बहु प्रसिद्धजनानां मातृभाषा अस्ति गुजरातीभाषा ।

जळगावमण्डलम्

जळगावमण्डलं(मराठी: जळगाव जिल्हा, आङ्ग्ल: Jalgaon District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं जळगाव इत्येतन्नगरम् । जळगावमण्डलं कदलीफल-उपस्कर (spices)-उत्पादनार्थं प्रसिद्धम् । 'खानदेश' इति अस्य मण्डलस्य पूर्वनाम । महाराष्ट्र्रराज्यस्य साहित्यक्षेत्रे श्रुतनामिकायाः कवयित्री बहिणाबाई इत्येतस्याः जन्मस्थानमिदम् ।

तन्त्रसारसङ्ग्रहः

तन्त्रसारसंग्रहस्य रचयिता मध्वाचार्यः भवति। तन्त्रसारसङ्ग्रहः तन्त्रसारग्रन्थस्य सङ्ग्रहरूपात्मकः ग्रन्थः भवति। अस्य ग्रन्थस्य रचयिता महाविष्णुः भवति। तन्त्रग्रन्थेषु प्रधानः ग्रन्थः भवति। तन्तसारस्य सारं ४२० श्लोकेषु निरूपितं भवति। अस्यैव नाम तन्त्रसारसङ्ग्रः इति। अस्य ग्रन्थस्य पठनेन सकलाभिष्टं सिध्यति इति। ततदेव उक्तं ग्रन्थे,ग्रन्थोऽयं पाठमात्रेण सकलाभीष्टसिद्धिदः।किमु ज्ञानादनुष्ठानादुभयस्मात् पुनः किमु॥तन्त्रमार्गास्तु हरिणाह्यसङख्याः कीर्तिता अपि।तेष्वयं सुगमो मार्गः सुफलश्चानुतिष्ठताम्॥यावतो ह्यननुष्ठाने कर्मपूर्तिर्न विद्यते।तावत्समस्तं कथितं ह्यस्मिंस्तन्त्रे यथाविधि॥प्रीयतेऽनेन मार्गेण पूजितो मुक्तिदो भवेत्।कामदश्च स्वभक्तानां भगवान् पुरुषोत्तमः॥ इति।

सृष्टेः प्रारम्भे महाविष्णुः ब्रह्मदेवाय दत्तोपदेशस्य सारः एव तन्त्रसारः। अस्य सङ्ग्रहः एव तन्त्रसारसङ्ग्रः इति स्वयं मध्वाचार्यः एव स्पष्टतया उक्तवान् अस्ति। तन्त्रसारसङ्ग्रहे चत्वारः अध्यायाः सन्ति।

धुळेमण्डलम्

धुळेमण्डलं (मराठी: धुळे जिल्हा, आङ्ग्ल: Dhule District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं धुळे इत्येतन्नगरम् । महाराष्ट्रराज्यस्य उत्तरदिशि मण्डलमिदं विद्यते । महाराष्ट्रराज्यस्य 'खान्देश'विभागे स्थितेषु मण्डलेषु अन्यतमम् इदं मण्डलम् ।

नागपुरमण्डलम्

नागपुरमण्डलं (मराठी: नागपुर जिल्हा, आङ्ग्ल: Nagpur District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नागपुर इत्येतन्नगरम् | नारङ्गफलानाम् उत्पादने मण्डलमिदम् अग्रस्थाने वर्तते । भारतदेशस्य मध्यबिन्दुः(Zero Mile Indicator) अस्मिन्नेव मण्डले अस्ति । महाराष्ट्रराज्यस्य द्वितीया राजधानी अस्ति नागपुर इत्येतन्नगरम् । भारतदेशस्य स्वच्छेषु हरितेषु च मण्डलेषु द्वितीये स्थाने विराजते मण्डलमिदम् । आभारतं व्याघ्र-राजधानी इत्यपि ख्यातिः अस्य मण्डलस्य ।

बीडमण्डलम्

बीडमण्डलं (मराठी: बीड जिल्हा, आङ्ग्ल: Beed District) महाराष्ट्रराज्ये स्थितमेकं मण्डलमस्ति | अस्य मण्डलस्य केन्द्रं बीड इत्येतन्नगरम् | द्वादशज्योतिर्लिङ्गेषु अन्यतमं 'परळी वैजनाथ' इत्येतल्लिङ्गम् अस्मिन्नेव मण्डले अस्ति । स्वामी रामानन्दतीर्थस्य जन्मभूमिः इत्यपि बीडमण्डलस्य प्रसिद्धिः । यवनाल(ज्वारी)-उत्पादकमण्डलम् इत्यपि अस्य मण्डलस्य प्रसिद्धिः ।

बृहत्संहिता

एष ग्रन्थः शताध्यायात्मकः-३९०० पद्यात्मकश्च विस्मयजनको विश्वकोशः । बृहत्संहिता नाम महान् समुच्चयः । संहिता नामान्यैः कृतानां ग्रन्थानां ग्रन्थभागानां वा संकलनम् । परन्तु बृहत्संहिता स्वोपज्ञम् । कदाचिच्च अन्यरचितानां ग्रन्थानां ग्रन्थभागानां वा अधमर्णत्वमत्र पाठकानां ज्ञायते । तादृशेषु प्रसंगेषु निः संकोचं परकृतीनामाधमर्ण्यमत्र सुविस्पष्ट मभिहितं ग्रन्थं कर्त्रा । अमुकभागस्य रचनार्थं माननीयोऽमुक इति स्पष्टं नामतः कीर्तयति ग्रन्थं कर्ता ।

रचनाकारोऽस्या बृहत्संहितायाः प्रसिध्दो ज्योतिर्विद् वराहमिहिर: । धन्यजन्मनोऽस्य पृथिव्यामवतारः क्रि.श.५०५ ईसव्यामिति विदितम् पिताऽस्यादित्यदासः । रचना अदसीया इमाः -

१. पञ्चसिध्दान्तिका ।

२. बृहज्जातकम्

३. लघुयात्रा (योगयात्रा)।

४. विवाहपटलम् ।

५. बृहत्संहिता ।एतासु रचनासु प्राथमिकस्य ग्रन्थचतुष्ट्वस्य ज्यौतिषकोटयन्तर्गतत्वं सुगमम् । अन्तिमं तु प्रकृतविचार्यो विश्वकोशः ।

एते विचारा बृहत्संहिताप्रतिपाद्याः-

१-२६. पीठिका, विविधा ज्यौतिषोपयोगिनो विषयाः, ग्राहचारो ग्रहभुक्तिर्ग्र्हयुध्दमित्यादि ।

२७. वायुर्यद वाति विविधैः प्रकारैस्तेषां फलानि ।

२८. वृष्टेः पूर्वानुमानानि ।

२९. पुष्पलता- समृध्दया आरोग्य-वृष्टि-दुर्भिक्षादीनां पूर्वानुमानानि ।

३० सन्ध्याकालीयानां वर्णानां विविधानां च प्रकाराणां वीक्षणेन निसर्गे संभाव्यमानानां घटनानां पूर्वानुमानम् ।

३१-३२. भूकम्पः । ३३. उल्का । ३४. सूर्यपरिवेषश्चन्द्रपरिवेषश्च (सूर्यं चन्द्रं च परितः कदाचिद् दृश्या वर्तुलाकारा प्रकाशरेखा)

३५. अतिपेलवानां मेघानां कारणतः (हिमनिबिडेषु प्रदेशेषु ) दृश्यमानस्य प्रतिसूर्यस्य लक्षणानि ।

३८. वायोरतितीव्रेण वेगेन उध्दूयमानस्य धूलेर्विचारः ।

३९. वात्या ।

४०-४१. ज्यौतिषशास्त्रानुसारिणी कृषिसमृध्दिः ।

४२. नक्षत्रराश्यानुगुण्येन वित्तस्फातिः, महार्घता, मौल्यह्रासश्च ।

४३.इन्द्रध्वजनिर्माणविधानं, तन्महिमानश्च ।

४४. देवताविग्रहाः, तथा, वह्नि- वृक्ष -स्तम्बकरि-वृष्टि – जल -प्रसूतिसमय-चतुष्पादिपशु –वायु ध्वजानाम् आकस्मिकानि वैपरीत्यानि च ।

४७. आकाशकायानां दर्शनेन ज्ञातव्यं राष्ट्रभवितव्यम् ।

४७. पुष्ये मासि राजभिरनुष्ठातव्यो मङ्गलस्नानाचारः ।

४९. राजभिर्धारणीयानि मुकुटानि ।

५०. खड्गनां लक्षणम् ।

५१. दैहिकानामङ्गानां परीक्षया सूचनीयानि भवितव्यानि ।

५२.श्वित्रैः (pimples) सूच्यमानं भवितव्यम् ।

५३. वास्तुवुद्या ।

५४. दकार्गला अर्थात्, पृथ्व्याः बाह्यैः कैश्चिन् चिह्नैरन्तर्जलानां शोधनं, वापीकूपतटाक निर्माणायोत्खननप्रसंगे मध्ये जायमानानां शिलानां भङ्गर्थम् अभ्युपायाः, लब्धे जले पानानर्हे तस्य पानार्हतासंपादनार्थं क्रियमाणाः क्रमाः ।

५५. वृक्षायुर्वेदः ।

५६. देवस्थानलक्षणम् ।

५७. अतिदृढस्य वज्रलेपस्य निर्माणम् ।

५८. प्रतिमालक्षणम् ।

५९. वनसंप्रवेशविधिः ।

६०. मूर्तिप्रतिष्ठापनम् ।

६१-६७ गो-श्व –कुक्कुट- कूर्म –च्छागा –श्व –गजानां लक्षणानि ।

६८-७०. स्त्रीपुरुषाणां लक्षणानि ।

७१. वस्त्रभङ्गे शकुनम् ।

७२-७३. छत्रचामरयोर्लक्षणम् ।

७४. स्त्रीप्रशंसा । ७५. सौभाग्यकरणम् (personality development) |

७६. वीर्यवृध्दे-रुपायाः ।

७७. सुगन्धद्रव्यनिर्माणम् ।

७८ संभोगसंबध्दाः केचन विचाराः ।

७९. शय्यासनानां लक्षणम् ।

८०-८३ मुक्ता पद्मरागमरकतानां लक्षणम् ।

८४. दीपलक्षणम् ।

८५. दन्तधावनार्थानां काष्ठानां लक्षणम् ।

८६-९६. विविधानि शुकनानि ।

९७. केषुचन नैसर्गिकेषु वैपरीत्येषु संभूतेषु तत्फल- जननसमयावधिः ।

९८-१००. तिथिनक्षत्रकरण संबध्दानां नित्यनैमित्तिकानां कर्मणां सुमुहूर्तदुर्मुहूर्तानि ।

१०१.जन्मनक्षत्रा नुगुण्येन भविष्यकथनम् ।

१०२. खगोलीयानां राशीनां विभागः ।

१०३. विवाहप्रसंगे ग्रहनक्षत्रादीनां स्थितिगतीरवलम्ब्य पूर्वानुमेयानि भवितव्यानि; विविधच्छन्दोबन्धानाम् उदाहरणनि च ।

१०४-१०५. नक्षत्रपुरुषोपासनाः ।

१०६. उपसंहारः । विषयानुक्रमणिकाएतेन विस्पष्टायते यद् बृहत्संहिता विस्मयजनकानां वस्तूनां महान् रसराशिः । ज्यौतिषे शास्त्रे ग्रन्थं कर्तुः परमा प्रीतिः । प्रकृते ग्रन्थे सर्वेऽपि विषयाः ज्यौतिषशास्त्रेणैव परम्परया साक्षाद् वा संबध्दा इति स पर्यगणयदिति प्रतिभाति । तस्मादेव कारणात् सः “ स्वबुध्दयाख्येन मन्दरेण लोकापकारशास्त्राख्यं चन्द्रं ज्योतिः शास्त्रसमुद्रात् निर्मथ्योध्दृतवानस्मि” इति वदति ।

अत्र भूयस्या मात्रया लभ्यमानं छन्द आर्याछन्दः । परन्तु विविधानां छन्दसां प्रयोगेषु कवेरतिभूयसी नैपुणी –छन्दः शास्त्रदृष्टया १०३ तमोऽध्यायः कुतूहलप्रदः । अत्र ६३ छन्दसां नामानि मुद्रालंकारेण योजितानि । तस्मात् संस्कृतच्छन्दः शास्त्र्चरित्रं रचयितृणामपि बृहत्संहिता प्रयोजनाधिक्यं जनयतीत्यत्र न संशीतिलेशः ।

भण्डारामण्डलम्

भण्डारामण्डलं (मराठी: भंडारा जिल्हा, आङ्ग्ल: Bhandara District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं भण्डारा इत्येतन्नगरम् । तडागप्राचुर्यात् आमहाराष्ट्रं प्रसिद्धमिदं मण्डलम् । मण्डलेऽस्मिन् खनिजसम्पत्तेः, वनसम्पत्तेः अपि प्राचुर्यमस्ति ।

संस्कृत-विश्वकोशाः

“ विश्वम्” इति प्रसिध्दस्य शब्दस्य न केवलं जगती अर्थः किं तर्हि ‘समस्तम्’ ‘सकलम्’ इत्यप्यर्थः समस्तीति न तिरोहितं प्रेक्षावताम् । “ विश्वेदेवता” इत्यस्मिन् किल शब्देऽर्थोऽयं कामं प्रतिष्ठितः । एतेन केनापि न भ्रमितव्यं विविधविषयसंकलनपूर्वकं ग्रन्थरचनायाः प्रवृत्तिः संस्कृतविद्वल्लोके नासीदिति । इत्थंभूतलक्षणलक्षिता ग्रन्था अनल्पयैव मात्रया कामं गोचरः सांस्कृतेऽपि जगति परन्तु विश्वकोशनाम्ना तादृशग्रन्थानामभिधानं नास्ति स्म रुढमूलम् । यद्यपि क्रैस्तवीये स्प्तदशे शके नसालतिनामकमुस्लिंराजपोषितेन काश्मीरदेशजेन विश्वेशाख्येन विरचिते “असालतिप्रकाशे” कश्चन ‘विश्वकोशः’ परामृष्टः परन्तु स केनापि रचितः शब्दकोश एव । राजमानसोल्लासं कर्ता सोमेश्वरस्तु स्वां कृतिं (राज)-मानसोल्लासं “ जगदाचार्यपुस्तकम्” इति विशेषणेन विशेषयति । अभिधानेनानेनैव “ विश्वस्मिन् वसतां बुध्दिजीविनां परामर्श्यो ग्रन्थः कश्चन रिरचयिषित” इति तदीयमाकूतमिति स्पष्टभूयिष्ठम् ।

वाङ्मयस्य विस्तरः कथञ्चित् संपुञ्जनीय एकत्रेति कामना बुध्दिजीविनां प्रायिकी । नात्र वैचित्र्यलेशो विस्मयकणिका वा । प्रवृत्तिरेवंभूता चीना- ग्रीक् –प्रभृतिराष्ट्रेष्वप्यासीत्, भारतेऽपि स्म वर्तते । एवं विधया भावनया चोदितानां ग्रन्थकाराणां प्रयत्नवशतः सृष्टान् संस्कृत ग्रन्थान् संक्षेपेण परिचाययति लेखोऽयं मामकीनः । नात्र सविवरणम् अनुसंन्धानं चिकीर्षितम् । केवलं प्राधीतानां कौतुकमुत्पादयितुं कृतमिद यतनम् ।

पुराणानि वहन्ते प्राधान्यं विषयेऽस्मिन्नित्यत्र न द्वापरः । प्राथमिकेन कृतेन दृष्टिनिपातेन केषांचन पुराणानाम् अस्तव्यस्ततेव दृश्यते । परन्तु नेदं तेषां विराड्रूपं तिरोदधाति ।

विमृशतामाधुनिकानाम् ऐतिहासिकानामभिप्रायस्यानुसारेण पुराण संज्ञया प्रथितानां सर्वासां कृतीनां पुराणत्वरुपो धर्मो न सिध्दयति, तत्र परामृष्टानां समुच्चितानां च केषाञ्चन वस्तूनां नावीन्यस्य दुरपह्नवत्वात् । परन्तु पुराणानां रचनाकालो न सुस्पष्टस्तस्मात् कारणादत्र प्रथमं विचार्याः पुराणाख्याः कृतयस्ता एव ।

होय्सळवंशः

फलकम्:Infobox former country/autocatहोय्सळवंशः क्रि.सा. १०००तः क्रि.श. १३४६पर्यन्तं दक्षिणभारतस्य कांश्चन प्रदेशान् प्रशासितवान् राजवंशः । होय्सळानां राजधानी द्वारसमुद्रम् एतत् अद्यतनस्य हासनमण्डलस्य हळेबीडुप्रदेशः भवति । जानपदानां विश्वासः यत् होय्सळसाम्राज्यस्य संस्थापकः सळ इति कश्चित् वीरः । चातित्र्यकदृष्ट्या अस्य नाम नृपकामः इति ऊहितम् । होय्सळसाम्राज्यस्य विस्तरणं प्रथमतया विनयादित्यः कृतवान् (क्रि.श. १०४७तः १०९८) होय्सळसाम्राज्यस्य अतिप्रसिद्धः राजा बिट्टिदेवः तस्य प्रसिद्धिः विष्णुवर्धनः इति नम्मा अभवत् । (क्रि.श. १११०-११४२) तस्य प्रशासनकाले होय्सळसाम्राज्यम् अद्यतनं कर्णाटकराज्यस्य बलिष्टं साम्राज्यम् अभवत् । अपि च पाश्वराज्ये अपि विस्तृतम् अभवत् । विष्णुवर्धनस्य काले कलायाः शिल्पकलायः च प्रोत्साहनम् अधिकम् आसीत् । अस्य पत्नी शान्तला ख्याता भरतनृत्यकलावती शिल्पकलासक्ता च । अस्य काले एव होय्सळानां शिल्पकलावैभवम् उत्कर्षं गतम् । अस्मिन् काले एव शिल्पकलायाः अत्युन्नतनिदर्शनानि उद्भूतानि । हळेबीडुप्रदेशस्य होय्सळेश्वरदेवालयं निर्मातुं ८६वर्षाणि उपयुक्तानि । तथैव बेलूरुप्रदेशस्य चेन्नकेशवदेवालयः १०३वर्षाणां तेषां परिश्रमाणां फलम् । होय्सळशिल्पकलायां दक्षिणोत्तभरतस्य शैल्योः मिश्रणं दृश्यते । होय्सळदेवालयेषु सहस्राधिकसुन्दरक्षदनानि सन्ति । देवालयाः होय्सळसाम्राज्यस्य सम्प्रदायः एव । वीरबल्लाळस्य (क्रि.श. ११७२-१३४६) काले होय्सळसाम्राज्यं दक्षिणभारते बलिष्टम् अभवत् । तदनन्तरकले होय्सळसाम्राज्यं विजयनगरसाम्राज्येन, सुल्तानैः सह स्पर्धितुम् आरभत । फलरूपेण होय्सळसाम्राज्यं क्रि.श. १३४६तमवर्षे अन्तमपश्यत् ।

अन्यासु भाषासु

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.