मृत्तिका

मृत्तिका ( /ˈmrttɪkɑː/) (हिन्दी: मिट्टी, आङ्ग्ल: Clay) धरातलस्य वृक्षाणां, तृणस्य, सस्यानां च पोषणकर्त्री अस्ति । मृत्तिकया विना तृणस्य अंशः अपि न उत्पद्यते । जलीयपादपाः जले जीवन्ति, किन्तु ते पादपाः मृत्तिकया अपि पोषणं गृह्णन्ति । मृत्तिका भूपर्पटेः महत्वपूर्णं स्तरः अस्ति । सस्यानाम् आधारः भूमिः वर्तते । अतः अस्माकं भोजनं, वस्त्रं च अपि मृत्तिकाधारितं वर्तते । मृत्तिका आवश्यकता प्रतिदिनं भवति । मृत्तिकायाः विकासः सहस्रवर्षेषु भवति ।

मृत्तिका शैलानां, जैवसामग्रीणां च मिश्रणं भवति । खानिजकणः, ह्युमस्, जलं, वायुः च मृत्तिकायाः घटकः वर्तते । एतेषु घटकेषु प्रत्येकस्य वास्तविकमात्रा मृत्तिकायाः प्रकारोपरि आधारिता भवति ।[१]

Clay-ss-2005
मृत्तिका

मृत्तिकायाः अवस्थाः

भूम्यां मृत्तिकायाः त्रयः स्तराः प्राप्यन्ते । ते स्तराः संस्तरम् इति कथ्यते । तेषु ’क’ संस्तरः सर्वोपरि विद्यते । तत्र पादपानां वृद्ध्यर्थम् अनिवार्यजैवपदार्थानां खानिजपदार्थेन, पोषकतत्त्वैः, जलेन च सह संयोगः भवति । ’ख’ संस्तरः ’क’ संस्तरेण, ’ग’ संस्तरेण अपि पोषकतत्त्वानि प्राप्नोति । ’ग’ संस्तरात् एव मृत्तिकानिर्माणस्य प्रक्रियायाः आरम्भः भवति । ’क’ संस्तरस्य, ’ख’ संस्तरस्य च निर्माणं ’ग’ संस्तरेण एव भवति । स्तराणाम् इयं व्यवस्था मृत्तिकापरिच्छेदिका कथ्यते । एषां त्रयाणां स्तराणाम् अधः शैलः भवति । सः शैलः मृत्तिकायाः आधारः कथ्यते ।[२] मृत्तिकायाः अस्तित्वं जटिलं भिन्नं च वर्तते । मृत्तिकायाः महत्त्वं वैज्ञानिकाध्ययनेन ज्ञायते । अतः वैज्ञानिकाः मृत्तिकया आकर्षिताः सन्ति । वैज्ञानिकैः मृत्तिकायाः वर्गीकरणं कृतम् अस्ति ।

मृत्तिकायाःवर्गीकरणम्

भारत-देशे भिन्न-भिन्नः वायुः, वनस्पतयः , परिमण्डलानि च प्राप्यन्ते । प्राचीने काले मृत्तिकायाः द्वौ भागौ आस्ताम् । उर्वरा, अनुर्वरा च । उत्पत्त्याः, वर्णस्य, संयोजनस्य, अवस्थितेः च आधारेण भारतस्य मृत्तिकाः निम्नलिखितेषु प्रकारेषु वर्गीकृताः सन्ति ।[३]

१. जलोढ-मृत्तिका

२. कृष्णमृत्तिका

३. रक्तपीतमृत्तिका

४. लैटेराइट्-मृत्तिका

५. शुष्कमृत्तिका

६. लवणमृत्तिका

७. पीटमयमृत्तिका

८. वनमृत्तिका

जलोढ-मृत्तिका

जलोढ-मृत्तिका औत्तरीयक्षेत्रेषु, नदीद्रोण्याः विस्तृतभागेषु प्राप्यते । भारतदेशस्य ४०% भागेषु इयं मृत्तिका विद्यते । राजस्थान-राज्यतः गुजरात-राज्यपर्यन्तम् इयं मृत्तिका विस्तृता अस्ति । प्रायद्वीपीयप्रदेशेषु अपि प्राप्यते ।

इयं मृत्तिका स्निग्धा वर्तते । अस्यां पोटाश् इत्यस्य मात्रा अधिका भवति । फास्फोरस् इत्यस्य मात्रा न्यूना वर्तते । गङ्गायाः मध्यवर्तीक्षेत्रेषु खादर, बाङ्गर इति नामके द्वे मृत्तिके प्राप्येते । अनयोः मृत्तिकयोः कैल्सियमी-सङ्ग्रथनं प्राप्यते । निम्नमध्यगङ्गायाः क्षेत्रेषु, ब्रह्मपुत्रनद्याः द्रोणिषु इमे मृत्तिके अधिके मृण्मये स्तः । जलोढमृत्तिकायाः राक्षा इव विद्यते । अस्यां मृत्तिकायां गहना कृषिः क्रियते ।[४]

कृष्णमृत्तिका

कृष्णमृत्तिका दक्कन इत्यस्य शैलप्रस्थे प्राप्यते । महाराष्ट्र-राज्यस्य, गुजरात-राज्यस्य, आन्ध्रप्रदेश-राज्यस्य, तमिळनाडु-राज्यस्य केचित् भागाः सम्मिलिताः सन्ति । गोदावरीनद्याः उपरिभागेषु, दक्कन इत्यस्य शैलप्रस्थस्य उत्तर-पश्चिमभागे असिता कृष्णमृत्तिका प्राप्यते । इयं मृत्तिका रेगर्, कार्पासस्य कृष्णमृत्तिका अपि कथ्यते । सामान्यतः कृष्णमृत्तिका मृण्मयी, असिता, अपारगम्या च भवति । इयं मृत्तिका आर्द्रायाम् उत्फुल्लति, शुष्के सति सङ्कुचति च । अनेन कारणेन शुष्कर्तौ इयं मृत्तिका विस्फुटति । इयं मृत्तिका जलस्य अवशोषणं करोति । तेन कारणेन दीर्घकालं यावत् अस्यां मृत्तिकायाम् आर्द्रता भवति । अतः शुष्कर्तौ अपि सस्यानि मृत्तिकायाः आर्द्रता प्राप्यते । तेन सस्यानां विकासः भवति ।[५]

रासायनिकदृष्ट्या कृष्णमृत्तिकायां चूर्णः, लौहः, मैग्नीशिया, ऐलुमिना इत्येतेषां तत्वानि अधिकमात्रायां प्राप्यन्ते । पोटाश् इत्ययम् अपि अस्यां मृत्तिकायां प्राप्यते । किन्तु अस्यां मृत्तिकायां फास्फोरस्, नाइट्रोजन, जैवः च इत्येतेषां पदार्थानां मात्रा न्यूना भवति ।

रक्तपीतमृत्तिका

दक्कन इत्यस्य शैलप्रस्थस्य पूर्वभागे , दक्षिणभागे, अल्पवृष्टिक्षेत्रेषु च रक्तमृत्तिकायाः विकासः अभवत् । तत्र आग्नेयशैलाः प्राप्यन्ते । पश्चिमीघाट इत्यस्य गिरिपदक्षेत्रे एकस्मिन् लम्बविस्तारे रक्तदुमटीमृत्तिका प्राप्यते । ओडिशा-राज्यस्य, छत्तीसगढ-राज्यस्य च केषुचित् भागेषु, मध्यगङ्गायाः क्षेत्रस्य दक्षिणभागे च पीतरक्तमृत्तिका प्राप्यते । कायान्तरितशैलैषु लौहतत्वैः इयं मृत्तिका रक्तवर्णीया वर्तते । इयं मृत्तिका उर्वरा भवति । अस्यां मृत्तिकायां नाइट्रोजन्, फास्फोरस् ह्यूमस् इत्यस्य न्यूनता भवति ।[६]

लैटेराइट् मृत्तिका

लैटेराइट् इति शब्दः लेटर् इति लेटिन् शब्देन निष्पद्यते । अस्य शब्दस्य अर्थः इष्टिका वर्तते । लैटेराइट् मृत्तिका उच्चतापमाने, अधिकवृष्ट्याधारितक्षेत्रेषु च उत्पद्यते । उष्णकटीबन्धीयवर्षया तीव्रनिक्षालनं भवति । उच्चतापमाने उत्पद्यमानाः जीवाणवः ह्यूमस् इत्यस्य मात्राम् अल्पीकुर्वन्ति । अस्यां मृत्तिकायां जैवपदार्थानां, नाइट्रोजन्, फास्फेट्, कैल्सियम् इत्येतेषां न्यूनता भवति । लौह-ऑक्साइड, पोटाश् इत्यस्य अधिकता वर्तते । तेन कारणेन लैटेराइट् मृत्तिका कृषेः उर्वरा नास्ति । सस्यानाम् उत्पादने उर्वरकस्य आवश्यकता भवति ।

तमिळनाडु-राज्ये, आन्ध्रप्रदेश-राज्ये, केरल-राज्ये काजूतकस्य वृक्षाः इव सस्यानां कृषेः रक्त-लैटेराइट् मृत्तिकायाः उपयोगः भवति ।[७]

भवननिर्माणे उपयुक्तायाः ईष्टिकायाः निर्माणाय लैटेराइट्-मृत्तिकाः प्रयुज्यन्ते । आसां मृत्तिकानां विकासः मुख्यत्वेन प्रायद्वीपीयशैलप्रस्थेषु अभवत् । कर्नाटक-राज्यस्य, केरल-राज्यस्य, तमिळनाडु-राज्यस्य, मध्यप्रदेश-राज्यस्य, ओडिशा-राज्यस्य, असम-राज्यस्य च पर्वतक्षेत्रेषु प्राप्यन्ते ।[८]

शुष्कमृत्तिका

शुष्कमृत्तिका रक्तवर्णीया, शुष्कद्राक्षवर्णीया च वर्तते । अस्याः प्रकृतिः लावणा वर्तते । केषाञ्चित् क्षेत्राणां मृत्तिकायां लवणस्य मात्रा अधिका भवति । अतः तस्याः जलं बाष्पीकृत्य लवणं प्राप्यते । अस्यां मृत्तिकायाम् आर्द्रता, ह्यूमस् इति च न्यूनं भवति । अस्यां नाइट्रोजन्, फॉस्फेट् इति इमे सामान्यमात्रायां प्राप्येते । अस्याः मृत्तिकायाः आन्तरिके भागे चूर्णस्य मात्रायां वृद्धिः भवति । तेन कारणेन अधस्थेषु संस्तरेषु लघुपाषाणस्य स्तरः भवति । लघुपाषाणस्य स्तरेण जलस्य प्रवाहः न्यूनः भवति । अतः सेचने अस्यां मृत्तिकायां पादपानां वृद्ध्यर्थं जलं सदैव प्राप्यते । इयं मृत्तिका राजस्थान-राज्यस्य पश्चिमभागे प्राप्यते । इयं मृत्तिका अनुर्वरा वर्तते । कारणम् अस्यां मृत्तिकायां ह्यूमस्, जैवपदार्थाः च न प्राप्यन्ते ।[९]

लवणमृत्तिका

इयं मृत्तिका ऊसर्-मृत्तिका अपि कथ्यते । लवणमृत्तिकासु सोडियम्, पौटेशियम्, मैग्नीशियम् च इत्येतेषां मात्रा अधिका भवति । इयं मृत्तिका अनुर्वरा वर्तते । अतः अस्यां मृत्तिकायां किमपि न उत्पद्यते । शुष्कजलवायोः, अपवाहस्य च कारणेन अस्यां मृत्तिकायां लवणस्य मात्रा वर्धते । अस्यां नाइट्रोजन्, चूर्णस्य न्यूनता भवति । गुजरात-राज्यस्य पश्चिमे भागे, पश्चिमबङ्गाल-राज्यस्य सुन्दरवनक्षेत्रेषु च इयं मृत्तिका प्राप्यते ।[१०]

पीटमयमृत्तिका

यत्र वर्षा अधिका, आर्द्रता अपि अधिका भवति, तत्र इयं मृत्तिका प्राप्यते । अतः तेषु क्षेत्रेषु अधिकमात्रायां जैवपदार्थाः एकत्रिताः भवन्ति । तेन ह्यूमस्, जैवतत्त्वाः च पर्याप्तमात्रायां प्राप्यन्ते । अस्यां मृत्तिकायां जैवपदार्थाः ४०% तः ५०% पर्यन्तं भवन्ति । इयं मृत्तिका प्रायः कृष्णवर्णीया भवति । बिहार-राज्यस्य उत्तरभागे, उत्तराञ्चल-राज्यस्य दक्षिणभागे, पश्चिमबङ्गाल-राज्यस्य तटीयक्षेत्रेषु, ऊडीसा-राज्ये, तमिळनाडु-राज्ये च इयं मृत्तिका प्राप्यते ।[११]

वनमृत्तिका

येषु वनेषु पर्याप्तमात्रायां वर्षा भवति तत्र इयं मृत्तिका प्राप्यते । पर्वतीये पर्यावरणे अस्याः मृत्तिकायाः निर्माणं भवति । पर्यावरणस्य परिवर्तनानुसारं तत्र मृत्तिकायाः संरचना परिवर्तिता भवति । इयम् अम्लीया भवति । अस्यां ह्यूमस् इति प्राप्यते । अधस्थासु घाटीषु प्राप्ता मृत्तिका अनुर्वरा भवति ।

सस्यानां, वनस्पतीनां च वृद्ध्यर्थं मृत्तिकायाः गठनं, गुणाः, प्रकृतिः च महत्वपूर्णा भवति ।[१२]

मृत्तिकायाः अवकर्षणम्

मृत्तिकायाः अवकर्षणं मृत्तिकायाः ह्रासत्वेन परिभाषते । अवकर्षणेन मृत्तिकायाः पोषणस्तरः न्यूनः भवति । अपरदनेन दुरुपयोगेन मृत्तिकायाः गहनता अपि न्यूना भवति । भारत-देशे मृत्तिकासंसाधनानां क्षयस्य मुख्यः कारकः मृदः अवकर्षणम् अस्ति । भू-आकृतेः, वायोः गतेः, वर्षायाः मात्रायाः च अनुसारं मृत्तिकायाः अवकर्षणमानं सर्वत्र भिन्नं वर्तते ।[१३]

मृत्तिकायाः अपरदनम्

मृत्तिकायाः आवरणस्य विनाशः मृत्तिका-अपरदनं कथ्यते । मृत्तिकायाः अपरदने मानवीयगतिविधिः विशेषतः उत्तरदायी वर्तते । जनसङ्ख्यावृद्ध्या स्थलस्य अपि आवश्यकता भवति । मानवानां निवासार्थं, पशुपालनार्थम्, अन्यासाम् आवश्यकतानां पूर्त्यर्थं च वनानां वनस्पतीनां छेदनं क्रियते ।

वायुः, जलं च मृत्तिकायाः अपरदनस्य मुख्ये कारके स्तः ।

वायुना मृत्तिकायाः अपरदनं शुष्कस्थलेषु भवति । यत्र वर्षा अधिका भवति, तत्र जलस्य प्रवाहेण मृत्तिकायाः अपरदनं भवति । जल-अपरदनस्य रूपद्वयं वर्तते । स्तर-अपरदनं, अवनालिका-अपरदनं च । सघनवृष्ट्यनन्तरं समतलभूमौ स्तर-अपरदनं भवति । अस्यां क्रियायां मृत्तिकायाः अपरदनं न दृश्यते । किन्तु इदम् अधिकं हानिकारकं वर्तते । यतः अनेन उर्वरमृत्तिकायाः स्तरः सर्पति । तीव्रघाटीषु अवनालिका-अपरदनं भवति । अवनालिका-अपरदनेन कृषिभूमेः विभागाः भवन्ति । तेन कारणेन सा भूमिः अनुपयुक्ता भवति ।

मृत्तिका अपरदनं भारतीयकृषेः एका गम्भीरसमस्या अस्ति । अस्याः समस्यायाः दुष्प्रभावाः अन्येषु क्षेत्रेषु अपि दृश्यन्ते । नदीनां घाटीषु अपरदिताः पदार्थाः एकत्रिताः भवन्ति । तेन कारणेन जलस्य प्रवाहः न्यूनः भवति । अतः कृषिभूमिः नश्यति ।

मृत्तिकायाः अपरदनस्य प्रमुखेषु कारणेषु वनोन्मूलनम् अन्यतमं कारणं वर्तते । पादपानां मूलानि मृत्तिकां बद्ध्वा अपरदनम् अवरून्धन्ति । पादपैः पत्राणि, शाखाश्च पतन्ति । मृत्तिकापत्रैः, शाखाभिः च ह्यूमस् इति प्राप्यते ।[१४]

भारतस्य सिञ्चितक्षेत्रेषु कृषियोग्यभूमेः बृहद्भागः सेचनस्य प्रभावेण लावणः भवति । मृत्तिकायाः आन्तरिके भागे स्थितं लवणं बहिरागत्य भूमेः उर्वरतां नाशयति । रासायनिकम् उर्वरकम् अपि मृत्तिकायै हानिकारकम् अस्ति ।

प्रतिवर्षं भारत-देशे अवकर्षणस्य कारकानि बहुमात्रायां मृत्तिकायाः तथा तासां तत्त्वानां ह्रासं कुर्वन्ति । अस्माकं राष्ट्रियोत्पादकतायां तस्य दुष्प्रभावः भवति । अतः मृत्तिकायाः उद्धरणार्थं, संरक्षणार्थं च उपायाः करणीयाः ।[१५]

मृत्तिकायाः संरक्षणम्

यदि मृत्तिकायाः अपरदनं, क्षयः च मानवैः क्रियते, तर्हि तासां संरक्षणमपि मानवाः कर्तुं समर्थाः । मृत्तिकायाः संरक्षणम् एकः विधिः वर्तते । अनेन विधिना मृत्तिकायाः उर्वरतायां वृद्धिः भवति । मृत्तिकायाः अपरदनं, क्षयः च अनेन विधिना अवरोद्धुं शक्यम् ।

मृत्तिकायाः अपरदनं दोषपूर्णपद्धतिभिः वर्धते । १५% तः २५% घाटीप्रवणताभूमेः उपयोगः कृषये न करणीयः । यदि कृषिः आवश्यकी वर्तते, तर्हि सोपानानि इव क्षेत्राणि निर्मापणीयानि । भारत-देशस्य विभिन्नभागेषु स्थानान्तरितकृष्या भूमेः प्राकृतिकम् आवरणं दुष्प्रभावितम् अभवत् । तेन कारणेन विस्तृतानि क्षेत्राणि अपरदनेन प्रभावितानि सन्ति । अपरदनस्य दुष्परिणामैः ग्रामवासिनः अवबोधनीयाः ।

भारत-सर्वकारेण "केन्द्रीय मृदा संरक्षण बोर्ड" नामकं सङ्घटनं स्थापितम् । अनेन सङ्घटनेन मृत्तिकायाः संरक्षणाय अनेकाः योजनाः कृताः । एताः योजनाः जलवायोः दशासु, भूमिसंरूपणे, जनानां सामाजिकव्यवहारे च आधारिताः सन्ति । भूमेः क्षमतानुसारम् एव वर्गीकरणं भवितव्यम् । भूमेः उपयोगस्य मानचित्राणि निर्मापणीयानि । ये जनाः मृत्तिकायाः उपयोगं कृत्वा लाभं प्राप्नुवन्ति, तैः मृत्तिकायाः संरक्षणस्य दायित्वं निर्वहणीयम् ।[१६]

सम्बद्धाः लेखाः

बाह्यानुबन्धः

सन्दर्भः

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 71. ISBN 8174505598.
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 71. ISBN 8174505598.
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 72. ISBN 8174505598.
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 72. ISBN 8174505598.
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174505598.
  6. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174505598.
  7. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174505598.
  8. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 75. ISBN 8174505598.
  9. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 75. ISBN 8174505598.
  10. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 75. ISBN 8174505598.
  11. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 75. ISBN 8174505598.
  12. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 76. ISBN 8174505598.
  13. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 76. ISBN 8174505598.
  14. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 76. ISBN 8174505598.
  15. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 77. ISBN 8174505598.
  16. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 77. ISBN 8174505598.

अन्यासु भाषासु

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.