मनोरञ्जनं

मनोरञ्जनसम्बद्धाः शब्दा: अधः प्रदत्ता:।

बाह्यसङ्केतः

क्रीडा

या देवी सर्वभूतेषु क्रीडारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

गिजुभाई बधेका

गिजुभाई बधेका ( /ˈɡɪdʒʊbhɑː bəðɛkɑː/) (गुजराती: ગિજુભાઈ બધેકા, आङ्ग्ल: Gijubhai Badheka) गुजरातराज्यस्य सर्वोत्कृष्टेषु शिक्षकेषु अन्यतमः । बालशिक्षणस्य क्षेत्रे अद्वितीयकार्यत्वात् आभारतं सः स्मर्यते । बालानां सश्मश्रुः माता (મુછાળી માઁ) इति सः प्रसिद्धः । यतो हि माता यथा स्वपुत्रस्य हितं चिन्तयन्ती आजीवनं समर्पयति, तथैव सः बालानां भविष्यस्य रक्षणार्थं, योग्यविकासस्य मार्गान्वेषणे च स्वस्य सम्पूर्णं जीवनं समार्पयत् । अप्रशिक्षितानां शिक्षकाणाम् अत्याचारैः भारतीयभविष्यस्य विकासः अवरुद्धः आसीत् । तस्य अवरोधस्य समाधानं कृत्वा स्वनवीनविचारैः तेन बालशिक्षणक्रान्तिः कृता ।

स्वस्य शिक्षणेन सः जनान् अबोधयत् -

चलच्चित्रम्

मनोविनोदक्षेत्रेऽपि विज्ञानस्य प्रभावोऽविस्मरणीयः। चलचित्रं रूपकस्य एवं आधुनिकस्वरूपं विद्यते। रूपयतीति रूपकम्। तद्वपारोपातु रूपकम्। तद्रूपकमभेदो यः उपमा-उपमेययो:। उपमानोपमेययोः साम्यप्रदर्शनाय काल्पनिकोऽभेदारोपः रूपकम्।।

रूपकं संस्कृत-साहित्यस्य एकं गौरवपूर्णं अंगमस्ति। नाटकान्तं कवित्वम्। काव्येषु नाटकं रम्यम्'। इत्यनेन सिद्धयति यत्–नाट्याख्यः पञ्चमो वेदः। अवस्थानुकृतिर्नाट्यम् आधुनिकयुगे ये खलु नवीनाः नवीनाः आविष्कारा भवन्ति तेषु आविष्कारेषु 'सिनेमे"ति नाम्ना प्रसिद्धस्य चलचित्रस्य महत्त्वपूर्ण स्थानं विद्यते। अनेन आविष्कारेण जगति जनजीवने च महती क्रान्तिः समुपस्थिता। इदं चलचित्रम् अस्मिन् युगे जनजीवनस्य अभिन्नांग जातम् अस्मिन् संसारे सर्वेषु प्राणिषु मानवः खलु विवेकोन सर्वश्रेष्ठत्वं भजते। ये जनाः विवेकिनः सन्ति, श्रमार्ते सति ते खलु सर्वे मनोविनोदाय प्रयत्नानि कुर्वन्ति। ईदृशानां तेषां जनानाम् आवश्यकतां पूत्र्यर्थ वैज्ञानिकैः अनेके आविष्काराः कृता वर्तन्ते। तेषु आविष्कारेषु चलचित्रमपि एकः उत्कृष्टः आविष्कारोऽस्ति। अनेन आविष्कारेण जना: विश्रान्तिकाले मनोरञ्जनं कुवंति। इदानी चलचित्रस्य प्रभावः आबालवृद्धनरनारीसमेतानां समस्तानाम् मानवानामुपरि विराजते। चलचित्रपटे परस्परं सम्भाषणं कुर्वन्त:, नृत्यन्तः, कृद्रन्तः, गायन्तः, युध्यन्तः, नायकाः, नायिका:, शरणागतान् रक्षन्तः शूराः, प्रवहन्त्यो, नद्यः, कल्लोलवन्तः सागराः, द्योतमाना विद्युतः, वर्षन्तः गर्जन्तश्च मेघाः, विकसितानि उद्यानानि, नगराणां भग्नावशेषाः, काननानां कर्तनम् किं किं वर्णयाम: यद्-यद् मानवः विचारयति तत्सर्वं चित्रपटे द्रष्टुं शक्यते। एवं च ऐतिहासिकविषयाः भौगोलिकी चर्चा च, यथा कुत्र के के आविष्काराः कृता वैज्ञानिकैः कथं तेषामारम्भः, इत्यादिकं समस्तं वस्तुजातं द्रष्टुं दूरस्था अपि प्रभवन्ति चलचित्रपटसहकारेण ।

चिन्तामणी

Chintamani काचित् वेश्यास्त्री आसीत् । सा अनुपमा गायिका आसीत् । स्वस्य मोहकलावण्येन सुश्राव्यगानेन कलापूर्णनृत्येन च सा सर्वेषां प्रशंसापात्रम् अभवत् । नगरस्य सर्वे युवकाः आगत्य तस्याः सङ्गीतनृत्याभ्याम् आनन्दम् अनुभवन्ति स्म । एतेन ते मनोरञ्जनं प्राप्नुवन्ति स्म । एतद् तु सहजं यत् कस्मैचित् पुरुषाय अर्पणेन विना नारीहृदयं सार्थक्यं न अनुभवति । चिन्तामण्याः स्थितिः अपि एवमेव अभवत् । तस्मिन्नगरे बिल्वमङ्गलनामकः कश्चित् सर्वश्रेष्ठः विद्यासम्पन्नः ब्राह्मणयुवकः आसीत् । कदाचित् सः राजवीथ्यां चिन्तामणीं दृष्ट्वा तस्याः सौन्दर्येण आकृष्टः अभवत् । तस्याः सौन्दर्यस्य पुरतः सः संयमरहितः जातः । तस्याम् एव रात्रौ सः चिन्तामण्याः समीपं गतवान् । सः सुन्दरः, आरोग्यवान्, गौरवर्णीयः सुपुष्टशरीरवान् च आसीत् । संयमेन सदाचारेण, तेजसा च सुन्दरं तं युवकं दृष्ट्वा चिन्तामणी अपि आकृष्टा जाता । एवं परस्परौ समाकृष्टौ सम्मिलितौ च ।

दूरदर्शनम्

"Doordarshanam" is actually television. Here we are talking about "computer", which is known as "Sanganakam" in Sanskrit.

इदानीं प्रपञ्चे वार्तादिकं ज्ञातुं, मनोरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति । तेषु दूरदर्शनम्इति विद्युन्मानयन्त्रम् अपि अन्यतमम् । अयं दृश्यस्य श्रव्यस्य च माध्यमः इति कारणेन दूरदर्शनयन्त्रस्य प्रभावः अत्यधिकः । अतः दूरदर्शनं जनप्रियम् अस्ति ।

नूरजहान्

नूर्जहान् (जीवितकालः - क्रि.श.१९२६तमवर्षतः क्रि.श.२०००पर्यन्तं जीवितकालः) उर्दूहिन्दीभाषयोः चलच्चित्रसङ्गीतस्य प्रसिद्धा गायिका अभिनेत्री च । स्वस्य अतिमधुरकण्ठेन सुन्दराभिनयेन च चत्वरदककालं दर्शकानानं श्रोतॄणां मनस्सु स्थिरा आसीत् ।

नैनितालमण्डलम्

नैनितालमण्डलम् ( /ˈnɛɪnɪtɑːləməndələm/) (हिन्दी: नैनिताल जिला, आङ्ग्ल: Nainital District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नैनिताल इति नगरम् । नैनितालमण्डलं मन्दिर-पर्यटन-तडाग-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । आङ्ग्लकालीनप्रासादाः अपि वीक्षणीयाः सन्ति अत्र ।

बालसाहित्यम्

बालसाहित्यस्य निर्माणं बालान् उद्दिश्य भवति। बालेभ्यः आह्लाददायकं विपुलं साहित्यं संस्कृतसाहित्ये, अन्यभाषासाहित्येषु च उपलभ्यते। संस्कृतसाहित्ये बालेभ्यः महत्त्वपूर्णः ग्रन्थः इत्युक्ते पञ्चतन्त्रम्। तस्य ग्रन्थस्य आधारेण विश्वस्य अनेकेषां साहित्यानां निर्माणं जातम् अस्ति। ततः हितोपदेशः, कथासरित्सागरः, अवदानशतकम्, उपमितिभवप्रपञ्चकथा, जातकमाला, दिव्यावदानम्, परिशिष्टपर्व (कथासाहित्यम्), बृहत्कथामञ्जरी, भारतमञ्जरी, रामायणकथामञ्जरी, वेतालपञ्चविंशतिका, शुकसप्ततिः, श्लोकसङ्ग्रहः, सिंहासनद्वात्रिंशिका इत्यादीनां गणना भवति।

बालानां साहित्यक्षेत्रे सक्रियतायाः विषये स्वविचारान् उपस्थापयन्तौ चार्लोट् एस् हक्क् (Charlotte S. Huck), डोरिस् यंग् कुह्ने (Doris Young Kuhn) इत्येतौ अलिखताम् –

“यदा बालकाः 'पुस्तकानां जगत्' प्रविशन्ति, तदा पितरौ, शिक्षकाश्च प्रसन्नाः, गर्वान्विताः च भवन्ति। यदि कोऽपि मानचित्रकारः (cartographer) पुस्तकानां मायाविजगतः मानचित्रं रचयितुं प्रायतिष्यत्, तर्हि साहसस्य शृङ्गोच्छ्रायान् (lofty peak), भयैः, आश्चर्यैः च आच्छादितायाः उपत्यकाः च निश्चयेन सः स्वमानचित्रे अस्थापयिष्यत्। तस्मिन् मानचित्रे सूचनायाः विशालानि क्षेत्राणि, हास्यैः चमत्कारिण्यः हास्यजनन्यः नद्यः, रहस्यसङ्गमिताः कन्दराः च अभविष्यन्।असंवृतशिलौकसः (Exposed rocks) अतीतकालीनं जीवनम् अनावृत्तम् अकरिष्यन्। (तत्र स्थिताः) रमणीयाः पोताश्रयाः सुखसुविधायाः, संरक्षणस्य च प्रतीकाः अभविष्यन्। तस्मिन् मायाविजगति समुद्रतले जायमाना गवेषणा नवीनं, कौतुकपूर्णं जगत् प्रति अग्रे सारयिष्यत्। तद्विश्वं तादृशस्य अज्ञातस्य विस्तारं करोति, यादृशे स्थाने कोऽपि अज्ञातजनेन, अज्ञातस्थानेन च सह मेलितुं शक्नोति। "साहित्यजगत्" निरन्तरं विकासशीलं जगत् अस्ति, यत्र शिक्षकाः सर्वान् अपि मार्गान् पदाङ्कितान् कर्तुं न प्रभवन्ति। तेन सर्वेऽपि बालकाः तस्य जगतः सर्वान् अपि मार्गान्, सर्वासु वीथिकासु, सर्वान् कोणान् च गन्तुं न प्रभवन्ति। परन्तु शिक्षकाः पुस्तकानां जगत् प्रति बालकान् अभिमुखिनः कर्तुं प्रभवन्ति। ते शिक्षकाः बालकानां सम्मुखं (तस्य जगतः) मानचित्रं तु उपस्थापयितुं शक्नुवन्ति एव, येन ते जीवनरतस्य अन्वेषणस्य आरम्भाय बालकस्य साहाय्यं कर्तुं प्रभवेयुः” इति।

बालसाहित्यस्य व्याख्यां कुर्वन् गुजरातीसाहित्यकारः श्रीयशवन्त दोशी-महोयदयः स्वग्रन्थे अलिखत्, "यस्य आकृतिः, अन्तस्तत्त्वञ्च बालकेषु आनन्दं जनयेत्, तदेव साहित्यं बालसाहित्यम् उच्यते" इति। बालसाहित्यस्य समग्रं सर्जनं बालान् अनुलक्ष्यैव भवति। यदा बालसाहित्यकारः साहित्यं रचयति, तदा बालमानसेन सह तादात्म्यं साधयित्वा साहित्यस्य निर्माणं करोति। बालसाहित्यकारः यदा साहित्यं रच्यमाणः भवति, तदा सः बालानां चिन्तनशैलीं, कल्पनाशैलीं च अनुलक्ष्य स्वसाहित्यस्य निर्माणं करोति। अतः तस्य चिन्तनम् अपि बालानुकूलम् आवश्यकम्। स्वसाहित्यस्य यथोचितं न्याय्यं कर्तुं साहित्यकारः स्वबाल्यकालं प्रति पुनः यात्रां प्रारभते। त्वचं निष्कास्य सर्पः यथा पुनः तस्यां त्वचि पुनः प्रविशेत्, तथा कस्यचित् प्रौढजनस्य स्वबाल्यकाल्यं प्रतिगमनं भवेत्। पञ्चतन्त्रे विष्णुशर्मा सरस्वतीविनोदं करिष्यामि इति उक्त्वा राजकुमाराणां नयशास्त्रं प्रवेशस्य उद्देशं मनसि निधाय स्वग्रन्थस्य रचनाम् अकरोत्। तथैव अनुगामिनः कवयः अपि अकुर्वन्।

बेङ्गळूरु

"बेङ्गलूरु"(Bengaluru)ಬೆಂಗಳೂರು नगरं भारतदेशस्य कर्णाटकराज्यस्य राजधानी अस्ति । बेङ्गलूरुमहानगरं कर्णाटकस्य आग्नेयभागे विराजते । एतत् मण्डलमपि । बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति । २००६ तमे वर्षे नवेम्बरमासे अस्य नगरस्य नाम आधिकारिकरूपेण "बेङ्गलूरु"- इति जातम् । एतत् नगरं कर्णाटकस्य अत्यन्तं महत् नगरम् । अत्र अधिकांशाः जनाः द्वित्राः भाषाः जानन्ति । बेङ्गलूरुनगरे ५१% जनाः भारतस्य विभिन्नेभ्यः भागेभ्यः आगत्य वसन्तः

सन्ति । बेङ्गलूरुनगरेण भारतस्य महानगरेषु तृतीयं स्थानं प्राप्तम् अस्ति ।

भारतेश्वरः पृथ्वीराजः

भारतेश्वरः पृथ्वीराजः ( /ˈbhɑːrətɛʃvərəh prʊθəvɪrɑːjəh xɔːhɑːnəh/) (हिन्दी: पृथ्वीराज चौहान, आङ्ग्ल: Prithviraj Chavhan) पृथ्वीराजतृतीयः, हिन्दुसम्राट्, सपादलक्षेश्वरः इत्यादिनामभिः प्रसिद्धः । भारतस्य अन्तिमहिन्दुराजत्वेन प्रसिद्धः पृथ्वीराजः १२३५ तमे विक्रमसंवत्सरे पञ्चदशवर्षदेशीयः (१५) राज्यसिंहासने आरूढः जातः । अतः तस्य माता कर्पूरदेवी एव अल्पवयस्कस्य पृथ्वीराजस्य संरक्षिकात्वेन राज्यकार्यं वहति स्म ।

पृथ्वीराजस्य त्रयोदश राज्ञ्यः आसन् । तासु संयोगिता प्रसिद्धतमा अस्ति । अन्याः जाङ्गलु, पद्मावती, चन्द्रावती अपि प्रसिद्धिं प्राप्नुवन् । भारतसम्राट्त्वेन यदा पृथ्वीराजः सिंहासनारूढः अभवत्, तदा तम् अल्पवयस्कं विचिन्त्य सपादलक्षसाम्राज्यस्य अनेके सामन्ताः, प्रतिवेशिराज्यानि च तस्मै व्यद्रुह्यन् । तेषु प्रप्रथमः नागार्जुनः आसीत् । नागार्जुन चौहान इत्येषः विग्रहराजस्य पुत्रः आसीत् । ११७७ तमे वर्षे पृथ्वीराजः तस्य विद्रोहस्य दमनम् अकरोत् । तस्मिन् युद्धे भादानकदेशीयाः शासकाः, जेजाकभुक्तिप्रदेशस्य शासकः, चालुक्यवंशीयाः च नागार्जुनस्य साहाय्यम् अकुर्वन् । यद्यपि सम्पूर्णस्य सपादलक्षसाम्राज्यस्य शासनं प्राप्तुम् एतैः सर्वैः दुर्गोष्ठी कृत्वा सैन्यबलेन, धनबलेन च आक्रमणं कृतम् आसीत्, तथापि पृथ्वीराजेन नागार्जुनस्य दमनं कृतम् ।

नागार्जुनस्य साहाय्यं यैः शासकैः कृतम् आसीत्, तेषां दुर्गोष्ठ्याः उत्तरं दातुं पृथ्वीराजः दिग्विजयाभियानम् आरभत । तस्मिन् दिग्विजयाभियाने पृथ्वीराजः ११७७ तमे वर्षे भादानकदेशीयान्, ११८२ तमे वर्षे जेजाकभुक्तिशासकं, ११८३ तमे वर्षे चालुक्यवंशीयशासकं च पराजितवान् । एतेषु वर्षेषु एव भारतस्य उत्तरभागे घोरी इत्याख्यस्य गौमांसभक्षिणः योद्धुः शासनविस्तारः, धर्मविस्तारः च जायमानः आसीत् । तस्य शासनविस्तारस्य, धर्मविस्तारस्य च नीतेः फलस्वरूपतया ११७५ तमवर्षात् पृथ्वीराजस्य घोरी इत्यनेन सह सङ्घर्षः आरब्धः । ततः ११७८ तमे वर्षे घोरी इत्येषः गुजरातराज्यस्योपरि आक्रमणं कर्तुं पृथ्वीराजस्य साहाय्यम् अयाचत् । परन्तु पृथ्वीराजस्य मनसि यवनेभ्यः घृणायाः भावः आसीत् तथा च पृथ्वीराजस्य मनसि चालुक्यवंशेन सह तस्य सङ्घर्षः गृहसङ्घर्षः आसीत् । तस्य गृहसङ्घर्षस्य लाभं स्वीकृत्य कोऽपि वैदेशीकः, गौमांसभक्षी यवनः भारतस्योपरि आक्रमणं कुर्यात् इति पृथ्वीराजः नेच्छति स्म ।

पृथ्वीराजः तु घोरी इत्यस्य साहाय्यं नाकरोत्, तथापि घोरी इत्येषः गुजरातराज्यस्योपरि आक्रमणं कर्तुं गतः । तस्मिन् युद्धे घोरी इत्यस्य लज्जास्पदः पराजयः अभवत् । तदारभ्य घोरी इत्येषः पृथ्वीराजस्य परमशत्रुः अभवत् । यतो हि घोरी इत्यस्य मतम् आसीत् यत्, पृथ्वीराजः यदि मम साहाय्यम् अकरिष्यत्, तर्हि तस्य विजयः अभविष्यत् इति । ततः अनेकानि लघुनि युद्धानि पृथ्वीराजस्य, घोरी इत्यस्य च अभूवन् । तयोः युद्धसङ्ख्यायाः उल्लेखः अनेकषु ग्रन्थेषु प्राप्यते । सर्वेषु युद्धेषु घोरी इत्यस्य पराजयः अभवत् । विभिन्नेषु ग्रन्थेषु याः सङ्ख्याः प्राप्यन्ते, ताः सङ्ख्याः ७, १७, २१, २८ च । सर्वेषु युद्धेषु पृथ्वीराजः घोरी इत्येनं बन्दिनम् अकरोत्, ततः तं व्यमोचयत् । परन्तु अन्तिमे नरायनयस्य द्वितीये युद्धे पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः पृथ्वीराजं बन्दिनम् अकरोत्, ततः कानिचन दिनानि 'इस्लाम्'-धर्माङ्गीकरणाय तस्मै शारीरकपीडाम् अयच्छत् । तस्यां शारीरकयातनायां घोरी इत्येषः पृथ्वीराजम् अन्धम् अकरोत् । अन्धः पृथ्वीराजः शब्दवेधबाणेन घोरी इत्यस्य हत्यां कृत्वा स्वपराजयस्य प्रतिशोधं स्वीकर्तुम् इष्टवान् । परन्तु देशद्रोहस्य फलस्वरूपतया तस्य सा योजना अपि विफला अभवत् । एवं यदा पृथ्वीराजस्य निश्चयं परिवर्तयतुं घोरी इत्येषः अक्षमः अभवत्, तदा सः अन्धस्य पृथ्वीराजस्य हत्याम् अकरोत् ।

अर्थात्, धर्म एव तादृशं मित्रम् अस्ति, यत् मरणोत्तरम् अपि सह गच्छति । इतराणि वस्तुनि शरीरेण सह एव नष्टानि भवन्ति ।

इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजेन उक्तस्य श्लोकस्य स्वान्तिमसमयेऽपि बहुधा आचरणं कृतम् इति ।

विश्वपरिसरदिनम्

अस्माकं भारतदेशे एव न किन्तु समग्रे भूमण्डले एव विश्वपरिसरदिनम् प्रतिवर्षं जूनमासस्य पञ्चमदिने आचरन्ति । साधारणतः अस्मान् परितः प्राणिपक्षिणः कृमिकीटाः, वृक्षाः नद्यः पर्वताः सरोवराः ये भवन्तेते सर्वे सर्वोणि परिसरशब्देन स्वीकृताः भवन्ति । अथापि भौतिकपरिसर, भौगोलिकपरिसरः, आर्थिकपरिसरः, सांस्कृतिकपरिसरः, सामाजिकपरिसरः, धार्मिकपरिसर इत्यादिनाम्नापि परिसरसम्बन्धिविषयाः चर्चिताः भवन्ति । सर्वेषां परिसराणामपि परिणामः मानवजीवनेषु द्र्ष्टुं साध्यः अस्ति ।

वयं यत्र वसामः तत्र यानि सन्ति गृहाणि, मार्गः, भूप्रदेशः, जलाशयः, वायुमण्डले स्थितः अनिलं सर्वं भौतिकपरिसरेषु मिलितं भवति । अस्माकं गृहमपि शुद्धं वायुप्रकाशदिना सुव्यवस्थितं भवति चेत् गृहपरिसरः उत्तमः भवति । अनन्तरं गृहे उत्तमकार्याणां करणेन व्यवहारेण धार्मिकसंस्कृतिक सामाजिक परिसरविषयाः ज्ञातुं शक्यन्ते । प्रकृतिमध्ये स्थिताः नद्यः, पर्वताः, वनानि, उद्यानानि, भौगोळिकपरिसर इति कथिताः भवन्ति । एतेषां सर्वेषां प्र्त्येकतः सम्बन्धः न भवति । (एकग्रामः अथवा नगरं) साक्षातैः सम्बन्धं स्थापयति । यथा मैसूरुनगरे श्रेष्ठः चामुण्डीबेट्टप्रदेशः । जीवननिर्वहणाय जनाः विविधकार्याणि कुर्वन्ति । विविधा उद्योगाः, करणीयानि कार्याणि, जीवनावश्यक सौलभ्यानि आर्थिकपरिसरस्य अंशाः भवन्ति । ग्रामे नगरे अथवा गृहे यानि आचरणानि कृतानि भवन्ति, पर्वाणि आचरितानि भवन्ति तानि धार्मिकपरिसरेणा सांस्कृतिक परिसरेण सम्बध्दानि भवन्ति । कला, सङ्गीतादिकं च अत्रैव मिलितं भवति । प्राचीनकाले जनसङ्ख्या अधिका नासीत् । तदा यथेष्टं कृषिभूमिः जलवायुव्यवस्था सुलभा आसीत् । किन्तु जनसङ्ख्यायाः वर्धनेन विशालं जगत् अल्पमिव जातम् अस्ति । विशेषतः भारत चीना इत्यादि देशेषु जनसङ्ख्या शतवर्षेषु अत्यधिका सञ्जाता अस्ति ।

भारतदेशे स्वातन्त्र्यपूर्वं ३० कोटि मिताः जनाः आसन् । १०१० तमे वर्षे भारते १२० कोटिमिताः जनाः सन्ति । विश्वे अनेकदेशेषु जनसङ्ख्यायाः वृध्दिः लक्षिता अस्ति । जनसङ्ख्यास्फोटः एव अनेक समस्यानां कारणञ्च भवति । यथा यथा जनवृद्धिः भवति तदा सर्वेषां वासाय स्थलम, आवश्यकं, गृहमावश्यकं, वसतिनिर्माणाय काष्ठानि आवश्यकानि । देशे नवनवीनोद्यमानां स्थापनं जलबन्धानां निर्माणम् इत्यादिनापि वननाशः कृतः अस्ति जनोपयोगिवस्तूनां उत्पादनम् अधिकम् अपेक्षितं भवति । तदर्थं नैसर्गिकवस्तूनां उपयोगः अधिकः अपेक्षितः अस्ति । व्यापारव्यवहारार्थं वन्यमृगं केचन नाशयन्ति यथा कथञ्चित जनाः जीवितुं पयत्नं कुर्वन्तः भवन्ति । एवम् इदानीन्तनकाले सर्वत्र जलमालिन्यं, वायुमालिन्यं, शब्दमालिन्यं परिसरम् अस्वच्छं कुर्वन्ति । जनानां शुद्धं पेय जलं न पूरितं भवति । श्युद्यमादिनामपि जलमावश्यकमस्ति । तत्रापि सुलभतया जलस्य प्राप्तिः न भवति । प्रमुखतः वननाशात् वृष्टॆः प्रमाणे न्यूनता भवति । जलस्य मूलानि शुष्काणि भवन्ति । एवं जलाभावः सर्वत्र कुपरिणामं करोति । जलस्य व्यापारः अधिक लाभदायकः विक्रेतृणां किन्तु दीनानां दरिद्रणाम् अतीव कष्टदायकः अस्ति । नदीजलम् अशुद्धजलैः दुष्टवस्तुभिर्युक्तम् अतीव दृष्टं सञ्जातम अस्ति । मलमूत्रादिकं, मृतशरीराणि सर्वाणि जले युक्तानि, विनाशक विषयुक्तानि जलमूलानि अनुपयुक्तानि जातानि सन्ति । नदीजलेषु उद्यमानां विषकारिजलानि अपि युक्तानि भवन्ति ।

वृष्टेरभावात् सरोवराः शुष्काः भवन्ति । अनेकविधरोगकारकाः भवन्ति । शुद्धजलपूरणं ग्रामे तथा नगरे अतीव कष्टदायकं तथा आर्थिकव्ययदायकं सम्वृत्तम् अस्ति । जलमूलाः रोगाः इति वचनानुसारेण बहुजनाः रोगिणः जाताः सर्वत्र दर्शनगोचराः भवन्ति । वायुमण्डले विशेषतः प्राणवायुः जीविनाम् अनिवार्यः अस्ति । अङ्गराम्लवायुः तथा च अन्ये अंशाः यदि अधिकाः भवन्ति तदा वायुमण्डलं कलुषितं भवति । बृहत् यन्त्रागारैः धूमः विषमिश्रितः सततं निस्सरति । भोपालप्रदेशे विषानिलेन सहस्रशः जनाः मृता अभवन् । सुन्दरस्मारकाणि ताजमहल्, श्रवणबेळगोळे स्थितः गोमटेश्वरविग्रहः इत्यादीनि प्रभावितानि अभवन् ।

भूप्रदेशे तथा वायुमण्डले इदानीं शब्दमालिन्यम् अपि दुस्सहनीयं सञ्जातम् अस्ति । भूप्रदेशे अनेक तैलचालितवाहनानि धूमेन साकं शब्देन सर्वान् सन्तापयन्ति सर्वत्र कर्णयोः वेदनाम् अनुभवामः । विद्यालयः, मन्दिराणि, चिकित्सालयाः, उद्यानानि शान्तियुक्तानि एव अयुक्तानि स्थानानि भवन्ति । किन्तु शब्दमालिन्यं सर्वत्र स्वप्रभावं दर्शयति । जनाः सुलभतया विश्रान्तिं निद्रां वा अनुभवितुम् असमर्थाः सञ्जाताः सन्ति । शब्द मालिन्य निवारणाय सर्वकारेण नियमाः कृताः सन्ति सूचनाफलकानि स्थापितानि । शब्दमालिन्यनियन्त्रणे सर्वैरपि मिलित्वा प्रयत्नः करणीयः अस्ति । इदानीं सम्पर्क साधनैः जगत् अल्पमिव सञ्ज्पतमस्ति । अतः अन्यदेशीय आहारविहारक्र्मः, वस्रधारणं, पर्वाचरणं, मनोरञ्जनं, क्रीडाः सर्वत्र प्रसिद्धाः सन्ति । यत्र कुत्रापि उपविश्य भूमण्डले स्थितं यत्किमपि गृहे एव द्रष्टुं मानवः समर्थः अस्ति । तथा अनुकूलता काल्पिताऽस्ति ।

अनेन धार्मिकपरिसरे, सामाजिकपरिसरे तथा सांस्कृतिकपरिसरे भीकरः परिणामः सञ्जातः अस्ति । स्वकीयान् उत्तमांशान् यथापूर्वं संरक्षितुं कष्टमनुभवामः सर्वत्र परिवर्तनं पश्यामः । मानवस्य आर्थिक स्थितिः सर्वदेशेषु सर्वजनानां समाना न भवति । अतः अल्पधनानां जीवनम् अतिदुस्तरं सञ्जातमस्ति । परिसर संरक्षणं सर्वेषां आद्यं कर्तव्यमस्ति । बालानां एतत् प्रथमतः बोधनीयम् अस्ति । नदीजलवायुशब्द मलिनता विषये, परिणामविषये च बाला प्रौढाः जागरिताः भवन्ति चेत् प्रथमं कार्यं भवति । यत्र यत्र स्थलं प्राप्यते तत्र वृक्षारोपणं वननिर्माणं कर्तव्यम् । वनमहोत्सवः सर्वत्र अद्य कर्तव्यरुपेण आचारणीयः सर्वकारेणापि नियमाः कर्तव्याः सन्ति । वननाशः न कर्तव्यः । परिसरनाशकानां योजनानां त्यागः कर्तव्यः । तादृशयोजनानां कृते जनैः विरोधः कर्तव्यः अस्ति । जनवसति प्रदेशात् दूरे उद्यमाः स्थापनीयाः । सर्वेषां पशुपक्षिसङ्कुलानां संरक्षणं, अनिवार्यमस्ति ।

समूहमाध्यमैः वनस्य, जलस्य, वायुमण्डलस्य महत्वविषये, मालिन्यनिवारणविषये च चर्चा कर्तव्या । जनानां मार्गदर्शनं कर्तव्यमस्ति । सर्वसमस्यामूलस्य जनसङ्ख्यास्फोटस्य नियन्त्रणम् अनिवार्यम् अस्ति । मानवाः प्राणिनः प्रकृते आपारं जलं वायुं च प्राप्नुवन्ति । अग्रिममानवसन्ततेः अपि तानि उपयुक्तानि भवन्तु । तथा संरक्षणकार्याणि कर्तव्यानि सन्ति । एतदर्थम् एव परिसरदिनम् विश्वे आचरितं भवति । अनेन परिसरप्रज्ञा भवति । परिसरसंरक्षणं च भवति ।

सन्तरणक्रीडा

सन्तरणक्रीडा(Swimming) जलक्रीडासु अन्यतमा ।

सन्तरणक्रीडा व्यक्तिगतरूपेण सामूहिकरूपेण च क्रीडन्ति । एषा क्रीडा मनोरञ्जनस्य साधनमस्ति । शारीरकेण मानसिकरुपेण च अतीव आनन्दं वितरति । शरीरं भारहीनं मनश्च शान्तं च करोति । अनेके रोगाः अपि अनया शाम्यन्ति ।

अन्यासु भाषासु

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.