भाषाविज्ञानम्


भाषाविज्ञानं केवल साहित्यसम्पत्तिसमृद्धायाः एव भाषायाः अध्ययनं नहि करोति अपितु साहित्यिकसम्पत्तिविरहितायाः अपि भाषायाः वैज्ञानिकमध्ययनं करोति । भाषाविज्ञानस्य सम्बन्धः कस्याश्चन भाषायाः केनचन कालविशेषेणैव साकं नहि भवति अपितु तस्य सर्वेषां कालानां भाषाविषयकाणां तत्वैः साकं भवति । भाषाविज्ञानं भाषायाः कस्याश्चन तत्वानि सङ्लय्य तानि चाश्रित्य सिद्धान्तानामपि निर्धारणं करोति । अस्मिन्नध्ययने ध्वनिनामुच्चारणस्य, अक्षराणां, शब्दानां, पदानां वाक्यानां च संरचनाया विवेचनं क्रियते ।

ध्वनिविज्ञानम्

मानवभाषायाः अध्ययनस्य प्रमुखो विषयः ध्वनिः विद्यते । समपूर्णा भाषा ध्वन्याश्रिता भवति। अत एव भाषाविज्ञानेऽपि ध्वनेरध्यनस्य महत्वपूर्णस्थानं भवति। ध्वनिविज्ञाने मानवशरीरस्य उच्चरणोपयोगिनाम् अवयवानां परिचयः क्रियते। तानि चाङ्गनि निम्नाङ्कितानि सन्ति -

१.स्वरयन्त्रम् २. मुखम् ३. जिह्वा, ४. ताल्वादिकं च।

ध्वनीनामुच्चारणस्थानस्य उच्चारणप्रयत्नस्य दृष्ट्यापि वर्गीकरणं क्रियते। तदनन्तरमिदमपि विचार्यते यत् तेषु ध्वनिषु कदा-कदा केन-केन च प्रकारेण विकासः सञ्जातः इति। तानेव ध्वनिविकासानाश्रित्य केचन निश्चिताः ध्वनिनियमा अपि क्रियन्ते। अत एव ध्वनिविज्ञानस्य इमे विषयाः सन्ति-उच्चरणावयवाः, ध्वनीनां संख्या, ध्वनीनां वर्गीकरणम्, ध्वनिविकाराणां दिशः, तासां कारणानि ध्वनिनियमाश्च।

पदविज्ञानम्

पदपदार्थं निरूपयता महर्षिणा पाणिनिनाऽभिहितम् - ‘सुप्तिङ्न्तं पदम्’ । तथाविधाः वर्णाः पदशब्देनाभिधीयन्ते येषां वर्णसमूहानामन्ते सुप्विभक्तिनामथवा तिङ्विभक्तिनां संयोगो भवति। आचार्यविश्वनाथेन अपि अभिहितम्-‘वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः’ इति । अस्मिन् पदविज्ञाने नानाविधानां पदानामध्ययनं क्रियते। यथा-संज्ञा सर्वनाम-क्रियाक्रियाविशेषणादिकानाम्, धातुरूपाणाम्, शब्दरूपाणाम् । अनेनैव साकमस्मिन् विज्ञाने पदानां मूलम्, पदानां व्युत्पप्तिः पदानां वाक्येषु प्रयोगाः, पदानां काले-काले सञ्जातं रूपपरिवर्तनम्, पदानां वाक्येषु देशकालानुसारेण विकारादिकाः विवेच्यन्ते । पदानि एव भाषायाः मूलभूतानि सन्ति। अत एव पदविज्ञानं भाषाविज्ञानस्य मूलभूतं विद्यते ।

वाक्यविज्ञानम्

अनेकेषां सार्थकानाम् अन्वितानाञ्च पदानां समूहो वाक्यमित्यभिधीयते । वाक्यस्य स्वरूपं निरूपयता आचार्येण विश्वनाथेनाभिहितम् - ’वाक्यं स्याद् योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः’ इति। अयमाशयो यत् पदानां समूह एव वाक्यमित्यभिधीयते । परन्तु तस्मिन् पदसमूहे वैशिष्ट्यत्रयमपोक्षितं भवति वाक्यत्वाय -

योग्यता

योग्यानां पदानां समूहो वाक्यमित्यभिधीयते । यथा अग्नेः योग्यता दाहक्रियायामेवाऽस्ति, न तु सिञ्चनक्रियायाम्। अत एव अग्निना सिञ्चतीति वाक्यं न भवितुमर्हति, अपितु जलेन दह्यतीति वाक्यं न भवितुमर्हति, अपितु जलेन सिञ्चतीत्येव वाक्यम्।

आकाङ्क्षा

अनेनैव प्रकारेण साकाङ्क्षाणामेव पदानां समूहो वाक्यमित्यभिधीयते, न तु निराकाङ्क्षाणाम्। यथा ’रामो गच्छतीत्येव वाक्यम्, न् तु रामः श्यामः मोहनाः’ इति पदानां समूहो वाक्यं भवितुमर्हति, एतेषां पदानाम् आकाङ्क्षारहितत्वात्।

आसत्तिः

अननैव प्रकारेण पदेषु वाक्यत्वायासत्तिरप्यावश्यकम्। सा चासत्तिरपि द्विप्रकारकौ - कालकृता स्थानकृता च । कालकृताऽऽसत्तेरभावादेव अद्याभिहितस्य रामः इति पदस्य दिनान्तरेऽभिहितेन ’गच्छति’ इति पदेन साकं वाक्यता नहि जायते। इत्थमेव ’रामो गिरिर्भुङ्क्ते अग्निमान्’ इति पदानां समूहेऽपि वाक्यत्वं नास्ति स्थानकृतऽऽसत्तेरभावात्। अतः ’रामो गिरिरग्निमान्’ इत्यनेन प्रकारेण पदानां क्रमेण भाव्यम् । अस्मिन् पदविज्ञाने वाक्यरचनाविषयको विचारः प्रस्तूयते, वाक्यानां भेदाश्चाधीयन्ते । अत्र वाक्यानाम् ऐतिहासिकं तुलनात्मकमध्येयनमपि प्रस्तूयते।

अर्थविज्ञानम्

शब्दार्थयोः शब्दविदः अभोदसम्बन्धं स्वीकुर्वन्ति । सर्वे शब्दाः सार्थकाः भवन्ति । मानवाः तान्-तान् अर्थानेवोद्दिश्य, तान् बोधयितुं तेषां-तेषां शब्दानां प्रयोगं कुर्वन्ति । निरर्थकानां शब्दानामुच्चारयिता विक्षिप्त अथवा मूर्ख इत्यभिधियते। गौः शब्दस्य प्रयोगः गोत्वावच्छिन्नायाः व्यक्तेः बोधनायैव क्रियते। इत्थं ज्ञायते यत् यदि शब्दाः शरीरभूतास्सन्ति तदा अर्थाः तेषामात्माभूताः । येन प्रकारेणात्मानं विना शरीरं नश्यति, तेनैव प्रकारेण शब्दानामपि सार्थकता अर्थैरेव भवति। अत एवार्थविज्ञानं भाषाविज्ञानस्यातीव महत्वपूर्णमङ्गं वर्तते । अर्थविज्ञाने यथा अभियुक्तशब्दस्य प्रयोगः प्राचीने काले प्रामाणिकपुरुषरूपस्यार्थस्य बोधनाय क्रियते स्म, किन्तु वर्तमाने काले तस्य शब्दस्य प्रयोगः सातसपुरुषस्य बोधनाय क्रियते। इत्थं शब्दानाम् अर्थपरिवर्तनानि तेषामर्थपरिवर्तनानां कारणानि प्रभृतयो विषयाः अर्थविज्ञानस्य विषयाः सन्ति ।

सम्बद्धाः लेखाः

निरुक्तम्

निरुक्तं षड् वेदाङ्गेषु अन्यतमम् । निरुक्तं निघण्टोर्महत्त्वपूर्णा टीकाऽस्ति । निरुच्यते निश्शेषेण उपदिश्यते तत् तदर्थावबोधनाय पदजातं यत्र तत् निरुक्तमिति कथ्यते । निरुक्तं यस्मिन्नाधारे प्रवृत्तं भवति — अर्थात् प्रत्येकं संज्ञापदं धातुना व्युत्पन्नोऽभवत् इत्याधारस्तु नितान्तं वैज्ञानिकमस्ति । अस्यैव सम्प्रति नामास्ति ‘भाषाविज्ञानम्' । अस्योन्नतिः पाश्चात्यजगति शतवर्षाभ्यन्तरे अभवत् । त्रिसहस्रवर्षं प्राग् वैदिकाः ऋषयः अस्य शास्त्रस्य सिद्धान्तानां वैज्ञानिकरीत्या निरूपणं कृतवन्तः । भाषाशास्त्रस्य इतिहासे भारतवर्षमेव अस्य मूलोद्गमस्थानमस्ति । निरुक्तस्य आरम्भेऽस्य विषयस्य येषां नियमानां प्रतिपादनं समुपलब्धं भवति, तत्तु विशेषरूपेण महनीयमस्ति।

निघण्टुग्रन्थस्य भाष्यमेव निरुक्तमित्युक्तं हि । उभयोः ग्रन्थयोः गणना वेदाङ्गे़षु क्रियते निरुक्तनाम्ना । यतो हि - अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम् - इत्युक्तत्वात् । अपि च एकैकस्य पदस्य सम्भाविता अवयवार्थाः यत्र निःशेषेण उच्यन्ते तदपि निरुक्तम् । एवंविध लक्षणेन निघण्टुनिरुक्तयोः गणना भवति निरुक्तनाम्ना ।

परावाक्

सेयं परावाक् स्वरुपज्योतिरुपा संविद्रुपा स्वप्रकाशेति महाभारते लिखितमस्ति । मूलाधारस्थपवनसंस्कारीभूता मूलाधारस्था शब्दब्रह्मरुपा स्पन्दशून्या बिन्दुरुपिणी सेति नागेशेन प्रतिपादितम् ।

चैतन्याभासविशिष्टतया प्रकाशिका माया निष्पन्दा परा वागिति पद्मपादाचाये वर्णितम् ।

परावाक् स्फोटशब्देनोच्यते । सैव शब्दब्रह्मेति कृष्णमित्रेण स्वीकृतम् ।

पश्यन्तीवाक्

पश्यति सर्वं प्रपंचं स्वस्मिन् या सा पश्यन्ती । अथवा परया दृश्यते या सा पश्यन्ती । यतो हि पश्यन्तीवाक् समस्तप्रपंचस्य मूलम् , एवं च परावाचः प्रथमविवर्त्तः ।

पश्यन्ती नाम जननीति नटनानन्देन लिखितमस्ति । पश्यन्ती संवित्रूपा शब्दब्रह्ममयेति ब्रह्मतत्त्वं शब्दात् पारमार्थिकान्तं भिद्यते । विवर्त्तदशायां तु बैखर्यात्मना भेद इति हेलाराजेन प्रतिपादितम् । प्रतिसंहृतक्रमा, सत्यप्यभेदे, समाविष्टक्रमशक्तिः पश्यन्ती । सा चला च अचला च । प्रतिलब्धा समाधाना च । आवृत्ता विशुध्दा च सन्निविष्टज्ञेयाकारा प्रतिलीनाकारा निराकारा च , परिच्छिन्नार्थप्रत्यवभासा संसृष्टार्थप्रत्यवभासा प्रशान्तसर्वार्थप्रत्यवभासा चेत्यपरिमाणभेदेति वाक्यपदीयस्य हरिवृत्तौ वर्णितमस्ति । या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशा संविद्रुपा वाक् सा पश्यन्तीति रघुनाथशर्मणा प्रतिपादितम् । मूलाधारतः नाभिपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्तं मनोविषयः पश्यन्तीति लघुमंजूषायां नागेशेन लिखतमस्ति ।

पश्यन्ती तु लोकव्यवहारातीता, योगिनां तु तत्रापि प्रकृति- प्रत्यय- विभागावगतिरस्ति, परायां तु नेति उद्दयोते नागेशेन वर्णितम् । सामान्यस्पन्दप्रकाशरुपिणी नादतत्त्वात्मिका अध्यात्ममूलाधारादिनाभ्यन्तम् अभिव्यज्यमाना पश्यन्ती । एवं च सामान्यज्ञानात्मकत्वात् पश्यन्ती सेति पद्मपादाचार्येण प्रतिपादितम् । इयं पश्यन्तीवाक् वागर्थविव संपृक्तौ पार्वतीपरमेश्वरौ इत्यत्र पार्वतीरुपा भवति ।

मध्यमावाक्

मध्ये मा बुध्दिर्यस्याः सा मध्यमा ।बाह्यान्तः करणादयात्मिका हिरण्यगर्भरुपिणी बिन्दुतत्त्वमयी सेति पद्मपादाचार्येण् उक्तमस्ति ।

अन्तः संकल्प्यमाना क्रमवती श्रोत्रग्राह्यवर्णरुपाभिव्यक्तिरहिता वाक् सा मध्यमेति जयन्तभट्टेन प्रतिपादितम् ।

अन्तर्मुखपरयोगिभिः दृश्या मध्यमा नाम शक्तिरिति ।

नटनानन्देन वर्णितम् । मध्यमा त्वन्तः संनिवेशिनी परिगृहीतकमेव बुध्दिमात्रोपादानेति – हरिवृषभेण चर्चितम् । बुध्देरेकत्वात् तदभेदाच्च मध्यमाया वाचो वस्तुतः क्रमशून्यत्वेऽपि क्रमपरिग्रहेणैव प्रत्यभासमानेति रघुनाथशर्मणा कथितम् । वैखरीपश्यन्त्योर्मध्ये भावान्मध्यमा वागिति तेनैव उक्तम् ।

हृदयपर्यन्तमागच्छता तेन वायुना हृदयदेशेऽभिव्यक्ततत्तदर्थविशेषोल्लेखन्या बुद्ध्या विषयीकृता हिरण्यगर्भंदेवत्या परश्रोत्रग्रहणायोग्यत्वेन सूक्ष्मा मध्यमा वागिति नागेशेन प्रतिपादितम् ।

वाक्तत्त्वम्

व्याकरणशास्त्रे ग्रन्थेकारैः वाक्तत्त्वविषये महती चर्चा कृता । अस्याः वाचः मौलिकचिन्तनमत्र शास्त्रे दृश्यते । पाणिनि- पतञ्जलिप्रभृतिभिः वैयाकरणैः परोक्षरुपेण अस्याः विवेचनं कृतम् । परन्तु भर्त्तृहरिणा प्रथमतया प्रत्यक्षरुपेण दार्शनिकधारा प्रदर्शिता ।

यथा ऋग्वेदे वाचः चातुर्विध्यं वर्णितम् किन्तु तस्याः नामोल्लेखो न कृतः तथैव पाणिनीयशिक्षायां स्पष्टरुपेण नोक्त्वा केवलं तस्याः स्थितीनां परिगणनं कृतम् । तथाहि –आत्मा बुद्ध्या समेत्यार्थान् मनो युक्ते विवक्षया ।

मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।

मारुतस्तूरसि चरन्मन्द्रं जनयते स्वरम् ।

अत्र चतसृणामवस्थानां वर्णनं कृतम् ।पतञ्जलिना चत्वारि श्रृंगा त्रयोऽस्य । चत्वारि वाक् परिमितानि इत्यादि ऋग्वेदमन्त्रद्वयस्य व्याख्या कृता । संभवतः तस्मिन् समये वाचो नाम्नः स्थिरत्व्ं न स्यात् । अतः पदजातानि इत्युक्त्वाऽपि नामाख्यतोपसर्गनिपाताश्च इत्यर्थनिर्देशः कृतो न तु परा –पश्यन्ती- मध्यमा –वैखर्यादीनां नामोल्लेखः कृतः । यद्यपि गुहा त्रीणि निहिता नेंगयन्ति तुरीयं वाचो मनुष्या वदन्ति इति वाचः चातुर्विध्यं प्रदर्शितम्, तथापि पतञ्जलिना चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्चेति व्याख्या कृता । परन्तु पदजातानि इत्यस्य व्याख्यानावसरे नागेशेन प्रतिपादितं यत् – पदजातानि परा पश्यन्तीमध्यमावैखर्यः, नामादीनि चेति ।

भर्त्तृहरिणा श्रुति- आगम- भाषाविज्ञानादिन्याधारीकृत्य वाचः तत्त्वमुद्घाटितम् । तस्य मते ज्ञानस्य हि वाग्रुपत्वम् । यथा प्रकाशकत्वमग्नेः स्वरुपम्, अथवा चैतन्यमन्तयार्मिणः स्वरुपम् । यदि प्रकाशकस्य प्रकाशकत्वमुत्सीदेत् , चैतन्यमन्तर्यामिणः तर्हि प्रकाशोऽन्तर्यामी च नैव भवेताम् । एवं च ज्ञानस्य वाग्रुपतायामुत्कान्तायां ज्ञानमपि न भवेत् । तथा च सकलमपि ज्ञानं सूक्ष्मया वाग्रुपतया स्थूलशब्दस्योपादानभूतया स्वरुपभूतयाऽनुगतम् । अत एव वाग्रपूता ज्ञानस्य शाश्वतो धर्मः । प्रकाशितस्य ज्ञानस्य चावधारिका वाक् ।भर्त्तृहरिमते वाक् त्रिविधा । यथा –पश्यन्ती, मध्यमा, वैखरी चेति । पश्यन्ती वागेव जगदुत्पादयति । सैव पराशब्देनाप्युच्यते, सैव च शब्दब्रह्म । सा च त्रिकालाबाध्यत्वरुपा नित्या । इदं शब्दब्रह्म वेदान्तवेदयब्रह्मतः अभिन्नम् । यद्यपि वाक्यपदीये पश्यन्ती-मध्यमा –वैखरीणां विवेचनं प्रतिपदोक्तं प्राप्यते , तथापि अत्रातीतविपर्यासः केवलामनुपश्यति इत्यत्र केवलापदप्रयोगेण परावाचः संकेतः प्राप्यते । अथवा सूक्ष्मपश्यन्तीरुपेण शब्दब्रह्मणः निर्देशः कृतः स्यात् । पश्यन्त्येव सूक्ष्मत्वेन परावाक्, पश्यन्तीमतिक्रान्ता तदभिन्नरुपा वा सेति विचारस्तु व्यर्थ एव । सगुणनिर्गुणादिभेदेन परापराभेदेन वा द्विविधतया र्वार्णतस्यापि ब्रह्मणः यथा एकत्वं न विरुद्ध्यते, तथा एकैव प्रत्यवर्शिनी वाक् गुणभूमिमतीत्य कदाचित् पश्यन्तीति कदाचिच्च परेति संज्ञयोपवर्ण्यते । अतः प्राचीनवैयाकरणैः पश्यन्त्येव परेति स्वीकृतमासीत् ।

नागेशभट्टेन वाचः चातुर्विध्यं स्वीकृतम । यथा –परा, पश्यन्ती, मध्यमा वैखरी चेति । ऋग्वेदे चत्वारि वाक् परिमिता पदानि इति मन्त्रे चतुर्विधा वाक् वर्णिता । किन्तु तत्र तासां नामोल्लेखो न दृश्यते । अस्य व्याख्यानावसरे महाभाष्ये चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च इत्युक्तम् । अस्य भाष्यस्या प्रतिकमादाय वाचः चातुर्विध्यं सिद्धान्तितं नागेशेन । तथाहि उद्द्योते – वाक्परिमितानीति षष्ठीतत्पुरुषः, पदजातानि- परापश्यन्तीमध्यमावैखर्थः, नामादीनि चेति । तस्य मते चशब्दोऽयं परापश्यन्तीमध्यमावैखरीणामपि संग्रहं बोधयति । अन्यथा चकारस्यानर्थक्यापत्तिः स्यात् । नामाख्यातादीनामपि परेत्यादिरुपचतुष्टयं वर्त्तते । तत्र त्रयोंऽशा मध्यमान्ता हृदयादिरुपायां गुहायां वर्त्तन्ते । चतुर्थं भागं वैखरीरुपं मनुष्याः वदन्ति । अवैयाकरणाः अज्ञानात् वैखरीरुपमेव जानन्ति व्यवहरन्ति च । वैयाकरणाः परादिमध्यमान्ता जानन्ति, वैखरीरुपेण व्यवहरन्ति । परा वाचः अस्तित्वप्रतिपादनाय नागेशेन प्रमाणद्वयं प्रदत्तम् ।

वाक्यपदीये अनादिनिधनम् इति कारिकायां शब्दब्रह्मणः उल्लेखः कृतः । एवं च शब्दब्रह्म रवशब्देन पराशब्देन चोच्यते । मतमिदं समर्थनाय प्रपंचसारतन्त्रस्य कारिकामुद्धरति । यथा –बिन्दोस्तस्माद्भिद्यमानाद् रवोऽव्यक्तात्मकोऽभवत् ।

स एव श्रुतिसम्पन्नैः शब्दब्रह्मेति गीयते ॥वाक्यपदीये वैखर्या मध्यमायाश्च इति कारिकायां त्रय्या वाचः परं पदम् इति लिखितमस्ति । तत्र श्रोत्रविषया वैखरी, मध्यमा व्यवहारकारणम् पश्यन्ती तु लोकव्यवहारातीता । योगिनां तु तत्रापि प्रकृतिप्रत्ययविभागावगतिरस्ति । परायां तु नेति । अतः तासां तिसृणां वाचां व्याकरणशास्त्रे प्रक्रियोपोगित्वमस्ति । शब्दब्रह्म ताभ्यः बहिर्भूतम् । सा परावाक् भवति । एतत् प्रमाणीकर्त्तुमुद्द्योते एका कारिका उदधृता । यथा –स्वरुपज्योतिरेवान्तः परा वागनपायिनी इति । नागेशस्य मते बिन्दोः शब्दब्रह्मापरनामधेयम्, वर्णादिविशेषरहितम्, ज्ञानप्रधानम् सृष्टयुपयोग्यवस्थाविशेषरुपम्, चेतनमिश्रम्, नादमात्रमुत्पद्यते । एतज्जगदुपादानमेव रवपरादिशब्दैः व्यवह्रियते । सा च परावाक् नित्या नित्यत्वं न यावत्सृष्टिस्थित्या व्यवहारनित्यतया च बोध्यम् ।

वेदाङ्गम्

वेदाङ्गं वेदाध्यनस्य अधिकारप्राप्त्यै अध्येतव्यांशः। वेदाङ्गानि षड् सन्ति। अङ्गमित्यस्य पदस्य व्युत्पत्तिः " अङ्ग्यते ज्ञायते अनेन इत्यङ्गम्" इत्यस्ति । वेदानां भाषा भावश्च दुरूहौ इत्यतः वेदार्थावबोधाय वेदाङ्गानाम् अपेक्षा भवति । अत एव - "षडङ्गो वेदोध्येतव्यः, साङ्गं वेदमधीत्यैव" इत्यादयः उक्तयः जाताः ।

"शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।

ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु"॥

इत्यनेन शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दः, ज्योतिषं च वेदाङ्गानि इति ज्ञायते । एतानि षट् शास्त्राणि इत्यपि प्रसिद्धानि सन्ति। एतेषां वेदाङ्गानाम् उल्लेखः गोपथब्राह्मणे बोधायनधर्मसूत्रे गौतमधर्मसूत्रे रामायणसदृशप्राचीनग्रन्थेषु च उपलभ्यते ।

"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।

पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश" ।

इत्यनेन चतुर्दशसु विद्यासु वेदाङ्गानां स्थानं प्रथमम् अस्ति ॥

वेदोपि कश्चित्पुरुषकल्पः । अतः तस्य वेदपुरुषस्य किमङ्गं किमु शास्त्रमिति उच्यते यथा-

"छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्योतिषं चक्षुषी च ।

शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं वेदस्याङ्गान्येवमाहुर्मुनीन्द्राः ॥"

एवं साङ्गवेदज्ञानम् एव पूर्णत्वं पूज्यत्वं च ददाति ॥व्याकरणं वेदस्य मुखं इतिवत् ज्योतिषं वेदस्य चक्षुः इति स्तूयते।

वैखरी

विखरः, शरीरं, तत्र भवा तत्पर्यन्तचेष्टासंपादिकेति वैखरी इति अभिनवगुप्तेनोक्तमस्ति । वक्तृभिः विशिष्टायां खरावस्थायां स्पष्टरुपायां भव वैखरीति वादिदेवसूरिणा वर्णितम् ।

विखरः इति देहेन्द्रियसंधातः उच्यते, तत्र भवा वैखरीति जयन्तभट्टेन प्रतिपादितम् । विशिष्टं खमाकाशं मुखरुपं राति गृहणाति इति विखरः प्राणवायुसंचारविशिष्टः वर्णोच्चारः तेनाभिव्यक्ता विखरीति जयरथेन लिखितम् । विशेषेण खरत्वात् वैखरीति पद्मपादाचार्येण उक्तम् ।

वै निश्चयेन स्पष्टतरत्वात् खं कर्णविवरवर्त्तिनभोरुपश्रोत्रेन्द्रियं राति गच्छति, तज्जन्यज्ञानविषयो भवतीति व्युत्पत्त्या वैखरीशब्दस्य निर्वचनं कृतं भास्कररायमखिना ।

खं छिद्रविशेषावच्छिन्नमाकाशम्, तदस्यास्तीति खरः कण्ठः, विबृतः खरो विखरस्तत्र वैखरीति रामप्रसादत्रिपाठिना प्रतिपादितम् । परैः संवेद्यं यस्याः श्रोत्रविषयत्वेन प्रतिनियतं श्रुतिरुपं सा वैखरी । शिलष्टा व्यक्तवर्णसमुच्चारणा प्रसिध्दसाधुभावा भ्रष्टस्ंस्कारा च । तथा याऽक्षे, या दुन्दुभौ, या वेणौ, वीणायामित्यपरिमाणभेदेति हरिवृषभेण प्रतिपादितम् । वैखरी कारणव्यापारानुग्रहा श्रोत्रज्ञानविषया शब्दबुध्दिरिति महाभाष्यव्याख्याया लिखितमस्ति । विराडरुपिणी बीजात्मिका हृदयादास्यान्तम् अभिव्यज्यमाना शब्दसामान्यात्मिका वैखरीति पद्मपादाचार्येण् उक्तम् ।सैव चस्यपर्यन्तं गच्छता तेन वायुना कण्ठदेशं गत्वा मूर्धानमाहत्य परावृत्य तत्तत् स्थानेष्वभिव्यक्ता परश्रोत्रेणापि ग्रहणयोग्या विराडधिदैवत्य वैखरीवागिति नागेशेन प्रतिपादितम् । त्रिविधं तावत् शब्दस्य स्वरुपम् । यथा- करणस्थम्, प्राणस्थम्, बुध्दिस्थं च । तत्र करणस्थं शब्दस्वरुपं वैखरी ।

वैय्याकरणाः

वैय्याकरणाः व्याकरणशास्त्रज्ञाः भवन्ति। पाणिनिसदृशाः अनेके वैय्याकरणाः प्रसिद्धाः सन्ति।

अन्यासु भाषासु

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.