भाषा

भाषा संकेतम् इनकोडम्, डीकोडम् च कृतुम् साधनम् अस्ति। जन्तवः सङ्गणकाणि च भाषायाः उपयोगम् करोतः। सामान्यतः जन्तुनाम् भाषाः प्राकृत्तिकाः सन्ति। परन्तु संगणकस्य भाषाः कृत्रिमाः एव सन्ति।

कतिचन मानवस्य भाषाः अपि कृत्रिकमाः सन्ति। लोजबानम्, इन्टरलिङ्वा, इडो, इतियादवः उदाहरणानि सन्ति।

संस्कृतम् विश्वस्य प्रथमः विकसितः भाषा अस्ति। संस्कृतात् एव अन्य विकसिताः आर्यभाषाः अजन्मत्, अतः संस्कृतम् भाषानाम् माता अस्ति। संस्कृतम् देवभाषा अपि अस्ति।

Meithei manuscript, a Indian language
प्राचीनभारतीयभाषाहस्तलेखः

महत्त्वम्

भाषा हि जनानां भावाभिव्यक्तये सशक्त साधनम् । अन्यैरपि चेष्टादभिः साधनैर्भावाभिव्यक्तिस्तु सम्भवति किन्तु न तत्र सम्पूर्णता सम्भवति । भाषेवसो शक्तिर्यया मनुष्यः पशुतो भिद्यते तेनैव वाङ्नाम दैवी शक्तिः । भाषा हि - समुदायस्य महान् वानिधिः । उक्तमेव 'तां विश्वरूपाः पशवो वदन्ति' इति । |.. विश्वरूपाः इति समुदायसम्बद्धाः, पशव इति प्राणिन उपलक्षणाज्जनाः, वदन्ति इति सुखेनोच्चारणं कुर्वन्ति । अनेन भाषायाः स्वरूपं व्याख्यातं मवति यथा भाषा नाम सा वाक् या खलु कण्ठताल्वादिभिरुच्चारणस्थानैरुच्चार्यते, या च केनचित्समुदायेन भावस्य स्पष्टाभिव्यक्तये प्रयुज्यते इति । अर्थात् उच्चारणा। वयवेभ्यः समुच्चरितानां सार्थकध्वनिसमूहानां समष्टिरेव भाषा भण्यते ।

भाषातत्त्वानि

अनेन भाषात्वसिद्धये चतुर्णा तत्वानामुपस्थितिरावश्यकी भवति । तानि चेमानि भवन्ति--

  • जनानां मुखताल्वादिभ्य उच्चारणावयवेभ्यः समुच्चारितानां सार्थक- । ध्वनिसमुदायानां समष्टिरेव भाषा भवति,
  • ताञ्च कश्चित्समुदायः स्वगतभावानां समग्राभिव्यक्तये प्रयुनक्ति, । | * तस्याश्च का विशिष्टा प्रक्रिया भवति या विवेचनीया निरूपणीया ।। च भवति
  • तस्याश्चैकं सार्वजनीनं स्वरूपं भवति यस्यः कश्चिन्निश्चितो नियमो नियामको भवति ।
  • सा च समुदायस्य भावसम्बद्धत्वात्सततपरिवर्तनशीला विकासोन्मुखी भवति । तादशश्च परिवर्तनमपि नियमत एव भवति न तु यथेच्छमिति ।

तादृशीं मनुष्यमात्रस्य सम्पद्भताऽनन्यप्राणिलभ्यां भाषा कथमुदैदिति विषये भाषाविदः परस्परं मंतपार्थक्यं जनयन्ति । केचिज्जनैः सम्भूय व्यवहारसौकर्याय भाषोत्पादितेति कथयन्ति किन्तु ते विस्मरन्ति यद्यदा भाषा नैवासीतदा जनाः कथं सम्भूताः कथञ्च ते परस्परं मन्त्रयाञ्चक्रुरिति । तेन मतमिदं नितान्तमेवाग्राह्यम् । केचित्तु भाषामीश्वरोत्पादितां मन्यन्ते तदपि । चिन्त्यमेव येतो यदि भाषेश्वरकृता भवेत्तदा तस्याः विश्वजनीनत्वं भवेत्। । किन्तु तथ्यं तद्विपरीतमेव । प्रतिसमुदायं भाषा भिद्यत एव तत्रापि प्रतिजाति तु भाषा परस्परासम्बद्धत्वेन भिद्यते अपरञ्चेश्वरकृताया भाषायाः कथं परिवर्तनधर्भसम्भवः । भाषा तु नितान्तपरिवर्तनशीला दृश्यते ।

विकासक्रमः

केचिद्भाषां क्रमेण विकसित मन्यन्ते । आदौ मनुष्य एकाकी विचरन्नासीत् । आकस्मिकमैथुनधर्मेण तस्य सङ्ख्या व्यवर्धत । कालान्तरे जीवनसौकर्याय तेन सामूहिक जीवनमारब्धम् । समानशीलाः समानं समुदायमवलम्ब्य स्थातुं प्रवृत्ताः । समूहजीवनेन सहैव परस्परं विचारविनिमयस्यावश्यकतोदगात् । प्रेथमं . तु तच्चेष्टादिभिरभूर्तसाधनैः समपद्यत किन्तु यथा यथा व्यवहारस्य जंटिलताः । वृद्धिमाप्ता तथा तथा चेष्टादिसाधनानि विचारविनिमयाय नितान्तमपर्याप्तानि सञ्जातानि । अपरञ्चान्धकारे चेष्टादीनां न तथोपयोगिता सिध्यति । तेन जनैविचारविनिमयाय ध्वनिप्रयोगः समारब्धः । आदौ ध्वनिरपि अस्पष्टोऽव्यक्तार्थ : श्चासीत् । अधुनाऽपि केऽचित्पर्वतप्रदेशेषु अव्यक्तध्वनिना विचारस्य कश्चिदंशः प्रकटौक्रियते । व्यतीते च काले सम्प्रवृत्ते च जटिलव्यवहारे तेनाऽपि नैव कार्यसमापन समपद्यत । क्रमशस्तादृशेषु ध्वनिषु अर्थसमावेशःसमारब्धः अस्माच्छब्दादयम. वैतद्वस्तु बौद्धव्यमिति सङ्केतनपरम्परा समुदिता । तत्रापि : प्रायः शब्दा असंयुक्ता एकाक्षरिण एवासन् । तान्वयमधुना धातुसंज्ञया व्यवहरामो यथा भू-वा-या-पा इत्यादयः । कालान्तरे बर्धमानव्यवहारापेक्षया शब्दराशेरावश्यकता समजायत । ततश्च तेष्वेव यं कञ्चिदंशं संयोज्य नवा नवाः शब्दाः निमिताः। ततश्चानेन क्रमेण भाषाऽस्तित्वमागता ।-समुदायविशेषेणैव स्वानुकूलमाविष्कृतत्वात्सा प्रतिसमुदाय भिद्यत इति ।

क्रीस्तधर्मग्रन्थों बाइबलमपि तथ्यमेवेदं समर्थयति । तदनुसारेण यदा इतरप्राणिसर्जनेनेश्वरो नैव सन्तुष्ट स्तदाऽन्ते स मनुष्यं सृष्टवान् । तं दृष्ट्वा च स परमप्रीतो बभूव । तमाशिभिः । संबध्यै स स्वसृष्टानां पदार्थानां नामकरणाय तमादिदेशः । मनुष्यो यं येना । ह्वयत्स तस्य नामाऽभूत् । इत्यञ्च भाषा समुदिता। तदा ईश्वरोऽचिन्तयधत्तस्य प्रियंमात्रं मनुष्य एकाकी वर्तते । एकाकी न रमते कोऽपि । तेन से ते निद्रा ददौ । निद्रितस्य शरीरादस्थिमांसंभागमादाय नारीं सृष्टबान्।।। यतः सी नेरशरीरांदंशमादाय सृष्टेति सा नारी नरस्यार्धाङ्गिनी । ततश्च तौ परस्परं ध्वनि साहाय्येनं, संल्लापमारेभतुर्यस्य विकसितं रूपमेव भाषा समजायत । यदाच. मनुष्याः पूर्वतः पश्चिम दिशं प्रति गतास्तदा, जगत्येको एव भाषाऽऽसीद्यञ्च सीमिता शब्दा एवीसनु। क्रमश, आवश्यकतानुसारेण शब्दनिधिवृद्धि प्रापित इति ।

भारतीयपरम्पराऽपि 'दैवी वाचमजनयन्त देवास्तां विश्वरूपाः पशवों वदन्ति इत्याद्युक्त्वा भाषां देवतोत्पदिता कमेण मनुष्यै हीतां मन्यते । ऋषयः खलु शब्ददर्शको अर्थनिरकाश्च। अस्माच्छब्दादयमर्यों बोद्धव्य इति ईश्वरेच्छव शब्दशक्तिरिति देवतायत्ता भाषा एकैवाऽऽसीत् किन्तु यदा सा मनुष्यगृहीता तेषामल्पबुद्धित्वात्साधि २ मिन्ना जाता । भाषोत्पत्ति विकासवादिनः सत्यस्य नैक किन्त तेऽपि न यथार्थमाप्तुं समर्थ है हि एतद्विस्मरन्ति यन्नैमित्तिक ज्ञानं विना न किमपि सिध्यति । यदि स्वतः ज्ञानेन सर्वं सिध्येत्तदा मपदा सर्वोऽपि समुदायः समानेनैव रूपेण क्किसितः स्यात् । I'S ११ उ तत्प्रतिकूलम् । तादशनैमित्तिकज्ञानं तु ईश्वरसिद्धमेव । स्याद्ययार्थं यद्वा तद्वा भाषा " भाषाव्यवहारे विकासवादिमतं सदोपेक्षणीयं सम्भवति । दतव स्यात्किन्तु' तद्विकासस्तु क्रमेणावश्यकतानुसारमेव सञ्जातोऽन्यथा शवतिगतिकर्मा कम्बोजेष्वेव न सीमितो भवेत् । लवनाथं प्राच्येषु. प्रसिद्धो दातिरुदीच्येषु दात्र न भवेत् । महान् हि शब्दस्य प्रयोगविषयः । स हि एकदा कदाचिदपि सिंह, सिद्धो न भवितुर्महति । अयं विकासस्यैव परिणामः ।।

भाषोत्पत्तिविषये भारतीयपरम्परा काचिद्विशिष्टैव विचारणा रक्षति । तदनुसार वाङ्नाम अनादिनिधना नया च या स्वयम्भवा आदौ वेदमयी वाचमजनयन्त तां विश्वः प्रवृत्तयः समुद्भता इति । एवमेव देवाः प्रथमं दैवीं एवेव लोकेषु त्रीणि पशुषविश्वरूपाः पशवो वदन्ति । स वै सृष्टी चतुर्धा व्यभवत् । एतेषु तुरीयमिति। तस्माद्वाह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुयुष्याणामिति । तेन वेदाधारेणैव लौकिकभाषा विकसिताऽअवदिति । वृहस्पतिः प्रथमं वाचं ददर्श । स हि देवतार्थं तामंगृह्णादिति तत्र वेदेषु कथ्यते । वाग्वै प्रथममखण्डाऽऽसीत। तत्र सौकर्यायेन्द्रो मध्यतोऽवक्रम्य कतिप्रत्ययादिविभागेन व्याकरोत् । उक्तमेव -

‘तामखण्डां वाचं मध्ये विच्छिा प्रकतिप्रत्ययविभागं सर्वत्राऽकरोत्' इति । । एवमेव - तामिन्द्रो मध्यतोऽवक्रमम्य याकृतोऽवदत् । ते देवा इन्द्रमब्रुवन् इमां नो वाचं व्याकुवति । व्याकरोदिति ।[१] तत्र हि खलु - सर्वेषां स तु नामानि कर्माणि च पृथक्-पृथक् । वेदशब्देश्य एवादौ पृथक् संस्थाश्च निर्ममे इत्यपि मन्यते । नैतावन्मात्रमपितु एतावदपि मन्यते यदा साधुशब्दाः साधुशब्दच्छात्वेनैवार्थबोधकाः किन्तु भर्तृहरिस्तु तेषां साधुशंब्दवाचकतां नैव स्वीकरोति साधुशब्दज्ञानविहीनानामपि तेभ्योऽर्थबोधदृष्टेः । पुनश्च वयं भाषाविषयं विकासवादेन संयोज्याग्रिमं वक्तव्यं ब्रूमः । कामं भाषा संविदुत्पन्ना, ईश्वरनिदष्टा वा क्रमेण विकसिता वा भवेत्किन्तु तस्याः क्रमिकविकासस्तु न केनाप्यलपितुं शक्यते। एकाक्षरात्मकशब्दादेकाधिकाक्षरात्मक शब्दनिर्माण, एकार्थकबोधकशब्दोदनेकार्थवाचकत्वोत्पत्तिः वर्णागमः, वर्णविपर्ययः, वर्णविकारः, वर्णलोपश्च क्रमिकविकासस्यैव लक्षणानीति सर्वैः स्वीकर्तव्यमेव । कामं दण्डादण्डि वायुद्धं प्रवर्तेत किन्तु वेदसम्बद्धशब्दानामपि.मूलरूपं प्रथममेव : तथैवाऽऽसीदिति तु वयं विश्वसितुं नैव समर्थाः । वयन्तु तदपि भाषाया : विकसितं रूपमेव मन्यामहे यदि तथाकथने जिह्वा नैवापकृष्यते । किञ्च वयं वेदार्थमेव भाषां गृह्णीमो न तु भाषार्थ वेदान् । वेदाः प्राचीनतमा; पवित्रा ब्रह्मणो वाच इति न वयमपि विमुखास्तत्वतः किन्तु वैदिकशब्दा अपि कुमेण विकसिता इति तु तथ्यमपि नैवापलयामः । नित्यत्वं तु शब्दानामेव प्रकृतिप्रत्ययविभागस्तु कृत्रिमः । झिविभक्तिं कल्पयित्वा 'झोऽन्तः' इंति पठने प्रथममेव अन्ति इति पठने च नैव भेदो भवति पदनिमित्तम् । नित्यं तु भवन्ति एव कामं कश्चित्तत्केनाऽप्युपायेन साधयेत्।

संस्कृतम्

देवभाषा हि संस्कृतपदेनाभिधीयते इत्याचार्याः । 'संस्कृतं नाम दैवी वागन्वाख्याता मनीषिभिः' इति वचनात् । तस्य संस्कृतामिधानं प्रकृतिप्रत्यादिविभागैः संस्कृतत्वादिति मन्यते । इदमुच्यते यत्प्रथमं भाषा नितान्तमव्याकृताऽखण्डैवाऽऽसीत् ।सा च प्रतिपदपाठेनैबोपदिश्यते स्म । कथ्यते यद्वृहस्पतिरिन्द्राय दिव्यवर्षसहस्रं प्रतिपदोक्तानां शब्दानां पारायणं प्रोवाच' इति । तेन तदध्ययने महान परिश्रमः कालक्षयश्च आवश्यक आसीत् । तेन देवा इमां नो वाचं व्याकुरु'इति इन्द्रं 'प्रार्थयामासुः । इन्द्रश्च तां मध्यतोऽवक्रम्य प्रकृतिप्रत्ययविभागेन व्याकरोदिति । तेनैवेत्थं व्याकृतत्वादस्य संस्कृतमिति नाम सञ्जातमिति । ननु प्रकृतिप्रत्ययविभागस्तु अन्यास्वपि भाषासु भवत्येव । तेन कथं देवभाषैव संस्कृतमिति नाशङ्कितव्यम् । तस्यास्तथाभिधानं सर्वप्रथमत्वेन व्याकृतत्वात् । यद्यप्य" भिधानमिद लौकिकसाहित्ये एव दश्यते सम्मवतो भाषावबोधकत्वेन प्रथमभरतनाट्यशास्त्र एव तथाप्यस्य सम्बन्धो वैदिकपदै.सहापि नापलपितुं शक्यः । तदेतत्पर्यवस्यति यद्भाषा प्रथममखण्डाऽव्याकृता चासीत् । तस्य च व्याकृतं साहित्यिक रूपं संस्कृतपदेनाऽप्यभिधीयते । तत्संस्कृतरूपमनुमातुमशक्तैरभिधातृमिरवकीर्णं सत्प्राकृतं सजातम् । यथाऽऽह भर्तृहरिर्वाक्यपदीये -

दैवी वांगवकीर्णेय मशक्त रभिधातृमिः ।[२] इति ।

एवमेव नाट्यशास्त्रेऽप्युक्तं -

“एतदेव बिपर्यस्तं संस्कारगुणवजितम् । विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ।'[३]

तेनदेमवधेयं यद्द वभाषाया व्याकृतं स्वरूपं संस्कृतमवकीर्णञ्च स्वरूपं प्राकृतमिति । अनेनैवाशयेनोक्त' भवेत् -

प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वा प्राकृतमिति । अन्यथा व्याकरणनियमबद्धाया भाषायाः परिवर्तनं वा विकारः कथं कल्पितः स्यात् ।' । उक्तमेव वाक्यपदीयस्य स्वोपज्ञवृत्तौ ‘प्रकृतौ भवं प्राकृतं साधूनां शब्दानाम् । '' इति । तेनैव लौकिकसंस्कृतापेक्षया वैदिकभाषया सह प्राकृतभाषायाः । सान्निकट्यमपि एतदेव समर्थयति । यथां वेदे मूर्धन्यषकारस्य टवर्गसंयुक्तव खकारवदुच्चारणं यथा ‘प्रथमो दैव्यो भिषक' श्त्यत्र भिषक्पदे । प्राकृतेऽपि भिख- ।। .: गिति । लौकिकसंस्कृते तु भिषगेव ! यथैव सूर्यस्य वेदे सूज्य इत्युच्चारणं तथैव ।

प्राकृतेऽपि, यदा इत्यस्य वेदे ज्यदा इत्युच्चारणं प्राकृते जदा इति, यमित्यस्य । वेदे ज्यमिति प्राकृते ‘जम्' इत्युच्चारणम् । तथैव वेदे न पदभक्तिः प्राकृतेऽपि तथैव । वेदे प्रतिपालिता स्वरभक्तिः प्राकृतेऽपि तथैव । संस्कृतस्य क्लिष्टत्वं संश्लेषणात्मकत्वञ्ब प्राकृतं नैव गृह्णातिं । लौकिकसंस्कृते अप्रथुक्तानामपि वैदिकशब्दांनों प्राकृते तत्समत्वेन वा तद्विकृतित्वेन प्रयोगश्चेदमेव तथ्यं सूचयति । ' तदित्थं वेदसम्मताऽपि. भाषा कालान्तरेण वर्णागमवर्णलोपवर्णविपर्यय। अर्थसङ्कोचविस्तारपार्थक्यादिभाषाविकारनियमैरवक्रान्ता प्रवर्धमानप्राकृतप्रयोग-समवकीर्णा च पुनर्वैयाकरणैः समयानुकूलं परिष्कृता सती लौकिकसंस्कृतसंज्ञां लेभे । तेनैव पाणिनिस्तां भाषाशब्देन लौकिकशब्देन च गृह्णाति । ‘भाषायां सद' ‘सर्वत्र विभाषा गोः' इत्यादिवाक्यैः ।लोकशब्दश्चोत्र, जनसामान्यवचनपरः । तत्र तत्र वैदिकशब्दानां कृते पृथगेव सूत्राण्यपि रचितानि यानि प्रक्रियाकौमुदीषु वैदिकप्रक्रिया नाम्ना पृथक् सङ्गृहीतानि ।

वैदिकशब्देषु प्राकृतशब्दसम्मिश्रणादेव लौकिकसंस्कृतं समुत्पन्नम् । एवमेब कौकिकसंस्कृतेऽपि प्राकृतप्रभावप्रवेशादेव शाखाः सञ्जाताः । तादृशप्रतिशाखप्रचलितरूपाणि सङ्गृह्य पाणिनिना तस्य परिनिष्ठितं रूपं निरूपितम्। तत्रापि यदनुक्त वा दुरुक्त' वा तद्वतककारेण साधितं 'यवनाल्लिप्याम् । इत्यादिभिर्वातकैः । तच्च महाभाष्यकारेण सर्वं सङ्गृह्य स्थिरीकृतमिति साम्प्रतिको संस्कृतभाषा मुनित्रयप्रसादाप्तेति रहस्यम् । इयमेव देवभाषा सर्वविधभाषा जननी ।तामेव पाश्चात्या विचक्षणी ‘भारोपोय' शब्देनाह्वयन्ति । संज्ञा तु या काऽपि स्याद्भारोपीयो भारतेरानीया, वाऽन्यांपि, मूलतत्वं तु , सैव देववाणी या तामनुकर्तुमशक्त: स्वानुकूल्येन पृथग्रूपेणोच्चार्यते। 'दुहितर्' इति सम्यगुच्चारितुमशक्त : ‘डटर्' इति कथनमात्रेण तस्य मूलरूपं तु नैव विपद्यते । हेमदत्तस्य ‘हेल्मट' इति लक्ष्मीदत्तस्य ‘स्मिथ इति, कामं कश्चिद् ब्रूपात् किन्तु तल्लेखने तु तेऽपि हेमदत्त एव लिखन्ति ।

संस्कृतभाषा केवलं साहित्यिकभाषेवाऽऽसीन्न तु व्यवहारभाषेति केचन निरर्गलं तर्कमप्युपस्थापयन्ति स्ववैचक्षण्यप्रदर्शनाय । किन्तु तथ्यं तद्विपरीतमेव । संस्कृतं हि प्राचीनकाले नितान्तमेव व्यावहारिकी भाषाऽप्यासीदिति बहुविधप्रमाणतो ज्ञायते । प्रथमन्तु तस्य शाखावत्वमेव प्रमाणम् । सामान्यतः परिवर्तशीलत्वमेव जीवितभाषाया भाषितभाषायाश्च लक्षणम् । यदि संस्कृतं हि भाषितभाषा न स्यात्तदा तत्र विकासोऽपि न स्यान्नचार्थविस्तार सोचावधि नैव च शाखाभेदः किन्तु संस्कृते एषां सर्वेषामेव समुपस्थितेः प्राक्काले संस्कृत भाषितभाषा आसीदिति स्पष्टमेव कामं तस्य प्रादेशिकता सीमिता आसीन। वाल्मीकिरामायणाज्ज्ञायते यत्तदा द्विजातयः (त्रयो वर्णाः) संस्कृतां नित दन्ति स्म । तत्समये द्विजातिप्रयुक्त तरजातिप्रयु क्तभाषयोरन्तरमासीत् । . तिप्रयुक्ता भाषा देवभाषेवाऽऽसीत् मनुष्यप्रयुक्ता तु तद्भिन्ना मानुषी सं अशोकवनप्राप्तो हनुमान् विचिन्तयति -

अहं ह्यतितनुश्चैव वानरश्च विशेषतः बाचञ्चोदाहरिष्यामि मानुषीमिह संस्कृताम् ।

यदि बाचं प्रदास्यामि द्विजातिरिव संस्कृताम् रावणं मन्यमाना मां सीता भीता भविष्यति।। इति।

यदि अहं द्विजातिरिव संस्कृतां वाचं ब्रवामित मां रावणं मत्वा भीता भविष्यति । तेनाहं मानुषीमेव किन्त वाचं वच्मीत्यस्याशयः । अनेनैतदपि सिध्यति यत्कामं मा थगेवाऽऽसीत्किन्तु तस्या अपि द्वे रूपे अ रस्तां संस्कृतम मानुषीभाषाभाषिणोऽपि द्विजातिभाषां संस्कृतं सम्यग्जानन्ति व रामायणे ‘बहु, व्याहरताऽनेन न किञ्चिदपशब्दितम्' भाषणे साधुशब्दानामपशब्दानाञ्च प्रयोगस्य प्रचलनं तथैव इत धुशब्दज्ञानं सिध्यति । 'विषयेऽस्मिन् बिश्वनाथाचार्यः कथयति "या भाषा सम्भाषणेषु प्रयुज्यते तत्र परिवर्तन स्वाभाविकमेव । वैदिकलौकिकसंस्कृतंयोः । परस्परसादृश्यं विलोक्य लौकिकसंस्कृतं वैदिकसंस्कृतस्यैव रूपान्तरमिति ।। प्रतिभाति । भाषापरिवर्तनेन सह तद्वयाकरणस्यापि परिवर्तनं सुनिश्चितम् । वैदिकलौकिकसंस्कृतव्याकरणयोस्तुलनया द्वयोरप्येतयोभषयोर्भेदज्ञानं भवत्येव इति ।[४] स च संस्कृतभाषा पतञ्जलिकालपर्यन्तमपि जनभाषाऽऽसीत् । तदनन्तरं सा शिष्टानामेव भाषात्वेनावशिष्टा। केचन वैदिकी भाषा कदाचित्सम्भाषणे नाऽऽसीत् । सा तु वेदवदनादिरपौरुषेया चेति मंन्यन्ते किन्तु तच्विन्त्यमेव यतो वेदे एंव ‘तां विश्वरूपा पशवो वदन्ति' “तस्माद् ब्राह्मणा उभय वाचं क्दन्ति, या च देवानां या च मनुष्याणामिति इत्यादि कथनात् तस्याः भाषितभाषात्वं सिध्यत्येव । कि यथेमां वाचं कल्याण आवदानि जनेभ्यः''; “सङ्गच्छध्वं संवदध्वं” इत्यादिकथनमभाषितभाषायामुपयुज्यते । कदापि नैव ।

यास्कादारभ्य सर्वै एव प्राञ्चो वैयाकरणाः संस्कृत भाषापदेन व्यपदिशन्ति । भाषितत्वमेव भाषाया भाषात्वम् । इराह्वयने अन्तिमः स्वरः। प्लुतो भवति इति भाषितभाषायी लक्षणं विहाय किमन्यत् ? कम्बोजेष्वेवेति । कि संस्थितभाषालक्षणम् ? यदि संस्कृतं न जनभाषा, भवेत्तदा पालिपालिता बौद्धाः किनिमित्तं संस्कृते ग्रन्थाः प्रणयेयुः ? स्वयमेवाश्वघोषः पालि विहाय संस्कृते काव्यं प्रणिनाय । शिलालेखानां नवतिप्रतिशतभागो राजशासनानां तदधिकप्रतिशतभागः संस्कृते एव लिखितो दृश्यते इति परं प्रमाणं संस्कृतस्य भाषितभाषात्वे । अभिनयार्थं प्रणीतेषु नाटकेषु प्रयुक्ता भाषा कथन्नाम भाषितेतरा भवेत् । पाणिनिः संस्कृतशब्दानां प्राच्यौदीच्यदाक्षिणात्यरूपाणि स्मरति । तथा तु तदैव सम्भवति यद्रा सा भाषितावस्थाका भवेत् । एकस्यैव शब्दस्य एकाधिकरूपाण्यपि भाषितत्वमधिकृत्यैवं भवति तव, ते, मम, मे, मो, मा, गवाक् शब्दस्य तु नवाधिकशतरूपाणि च भाषायाः भाषितत्वस्यैव लक्षणम्।। व्याकरणानां बाहुल्यं तत्रापि मतान्तरं यथा 'लोपः शाकल्यस्य’, ‘अवङ् स्फोटायनस्य,' ‘ऋतो भारद्वाजस्य, चेत्यादि अपि भाषाया भाषितत्वस्यैव परिचायकम् । सर्वानतिशय्य सम्प्रसारणं यण्विकल्पश्च भाषाया जीवितत्वस्य परिचायकः ।

यण्विकल्पो यथा त्र्यम्बकं यजामहे, त्रियम्बकं संयमिनं ददर्श' इति ।। सम्प्रसारणं तु इग्यणः सम्प्रसारणम् । तथैव ‘पारम्पर्यादपभ्रशो विगुणेष्वाभिधातृषु' इति 'दैवी वाग्व्यवकीर्णेयमशक्त रभिधातृभिः', इत्यपि च भाषाया भाषितत्वस्यैव सूचकम् । पृषोदरादिव्यवस्थाऽपि भाषाया भाषितत्वं जनयति । न कुतोऽपि सिद्ध प्रयोगमागते च शब्दे, पृषोदरादित्वात्साधुरित्युच्यते । भाषायाः संस्थितत्वे काऽऽवश्यकताऽस्या व्यवस्थायाः । ‘पृषोदरादीनि यथोपदिष्टम्[५] पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि स्युः इति । वर्णमांत्रभेदेन अर्थान्तरवाचकत्वमपि भाषितभाषाया एव लक्षणम् । संस्कृते तथाविधा बहवः शब्दा दृश्यन्ते यथा गर-गल-ग्रह-ग्लहशब्दाः । सर्वैव नामधातुप्रक्रिया जीवितभाषयामेव सम्भवति व्यवहारसौकर्याय अभाषितभाषायायनुनासिकनिरनुनासिकयोः को भेदः ? गुणे अर्परत्वञ्चोच्चारणसौकर्येणैव भवति । तदेतानि अन्यानि च प्रमाणानि संस्कृतभाषाया भाषितत्वं साधयन्ति । किर्यत्कालपर्यन्तमेषा भाषिताऽऽसीदित्यपरः प्रश्नः । सामान्यतो गौतमबुद्धसमये पालीभाषाया 'भाषितत्वं वौद्धग्रन्थतो ज्ञायते । तेन गौतमस्थितिकाले संस्कृतं हि शिष्टानामेव द्विजातीनां भाषितभाषाऽऽसीदिति स्वीकर्तव्यमेव । सम्भवति प्राचीनकालादेवं जनाः संस्कृतं तु जानन्ति स्म किन्तु व्यवहारे द्विजातयः संस्कृतां वाचमितरे तु मानुषीं वाचं पालीप्रभृति प्रयुञ्जन्ति स्मेति तथ्यविश्लेषणतो ज्ञायते । शनैः शनैः संस्कृतभाषा द्विजातिष्वेव सीमिता सञ्ज़ाता। द्विजातयोऽपि परस्परालापे संस्कृतस्य इतरैः सहाला मनुष्याः प्रयोगं कुवन्ति स्मेति 'तस्माद् ब्राह्मणा उभयीं याचं वदन्ति या च देवानां या च मनुष्याणाम्' इति निरुक्तवचनात्[६] ज्ञायते ।

पाणिनिकाले संस्कृतं नितान्तमेव शिष्टभाषात्वेनावशिष्टाऽऽसीत् । पतञ्जलिकाले भाषाया' मपभ्रंशस्य एतादृशं. बाहुल्यमासीद्यद् द्विजातयोऽपि तत्प्रमावादात्मानं नैव रक्षितुं समर्था आसन् इति ‘एकस्य शब्दस्य बहवोऽपभ्रशाः' इति पतञ्जलिवचनाज्ञायते । तेनैव स द्विजातिष्वपि ब्राह्मणेन नापभषितवै नापम्लेच्छितवै ‘इति. निदशति । पतञ्जल्यनन्तरं तु संस्कृतं केवलं पण्डितभाषैव समजायत । तस्य जनसामागान्यसम्पर्कः प्रायो विच्छिन्न एव । पुनश्च गुप्तकाले भोजसमये च संस्कृतस्य प्रचारस्तु सञ्जातः किन्तु तस्य जनसामान्यसम्पर्कस्तु, नैव पुनरुदितः । सम्प्रति तु पण्डितसमाजेऽपि विरला एवं जनाः संस्कृतमाश्रित्यं संल्लापं कुर्वन्ति ।

साम्प्रतिककाले संस्कृतस्य माहात्म्यं देशभाषासु गीयते संस्कृतस्य ग्रन्था देशभाषानाम्ना प्रकाशिता अपि दृश्यन्ते यथा ‘हिन्दी :: दशरूपकं' वा 'हिन्दो नाट्यशास्त्र'मित्यादि । प्रायः समस्ता एवं संस्कृतग्रन्थाः वेदाश्च देशभाषायामनूदिता अपि दृश्यन्ते । यत्र कुत्र तु देशभाषायाः संस्कृतस्य : पर्यायवाचककत्वमपि सम्मतं दृश्यते । काऽतःपरं विडम्बना संस्कृतस्य । अपरञ्च परीक्षासौकर्यदृष्ट्या पुस्तकानि खण्डीकृत्य . प्रकाश्यन्ते तान्यपि प्रश्नोत्तरसंहितया छिन्नाङ्गान्येव । आधुनिकपण्डितैर्यथामति व्याख्यायन्ते च । ग्रन्थाः तथाकरण क्वचित्तु व्याख्या मूलप्रतिगामिन्यपि दृश्यते । भवतु तावत् । । संस्कृतं हि आर्यजातेः प्राणभूता भाषा । अस्यामेव पूबैजना विचिन्तयन्ति विचारयन्ति स्म । आधुनिकास्तु देशभाषायां विचिन्तयन्ति तदेवानुद्य संस्कृतमाश्रित्यावतारयन्तीति । संस्कृतस्य मौलिकत्वं तु प्रणष्टमेव । संस्कृतस्य मूलवैशिण्टयसंरक्षणाथ पूर्वजनी हि दत्तजीवना असन् किन्तु सम्प्रति न कोऽपि तन्निमित्तं प्रयतत इति कस्य सहृदयस्य न दूयते चेतः । इदं प्रागेवोक्त यद्देवभाषा व्याकृतत्वात्संस्कृतामिधानं लेभे इति । इन्द्रो ह वै प्रथमो व्याकर्ता आसीदित्यपि उक्तमेव । आगामिप्रकरणे व्याकरणपरम्पराविषये किञ्चिद्वक्ष्यते ।

भाषा कुटुम्बे समपूर्वजाणम् भाषा सन्ति। ताषु समगुणाः अस्ति। आर्यभाषाः महिष्ठः भाषाकुटुम्बः अस्ति। तायाम् ४७७ भाषाः, विश्वे ४६% जनाः तयाः वाचक सन्ति।

वयम् भाषाः लिपिभिः लिखामः। सर्वाणाम् भाषानाम् स्वकीयलिपिः नस्ति, अतः तथा भाषः परभाषायाः लिप्याः उपयोगम् करोति वा सा आलिखितम् न भवति। हिंद्याः स्वकीयलिपिः नस्ति, अतः सा संस्कृतस्य देवनागरीलिपिम् उपयोगम् करोति।

सम्बद्धाः लेखाः

सन्दर्भाः

  1. १० ६।४।७
  2. १॥१॥५४
  3. १७/२
  4. सं. सा. पृ. ३
  5. ६।३।१०९
  6. १३॥९
आङ्ग्लभाषा

आङ्ग्ल एका भाषा अस्ति । इदानीं भारतदेशस्य अधिकृतभाषासु अन्यतमा अस्ति । देशे बहुशः छात्राः अनेन भाषामाध्यमेन एव पठन्ति ।

अस्याः वर्णामालायां २६अक्षराणि सन्ति । लेखनसौकर्यार्थम् uppercase letters & lowercase letters इति तेषां रूपद्वयम् अस्ति। ते यथा...

बृहदक्षराणि (uppercase letters):

A B C D E F G H I J K L M N O P Q R S T U V W X Y Z

लघ्वक्षराणि (lowercase letters): a b c d e f g h i j k l m n o p q r s t u v w x y z

तेषु ५ स्वराः यथा... A(a), E(e), I(i), O(o), U(u) अन्ये व्यञ्जानानि भवन्ति ।

ज़्

कन्नडभाषा

भारतदेशस्य दक्षिणराज्येषु अन्यतमम् अस्ति कर्णाटकम् । कर्णाटकस्य प्रादेशिकभाषायाः नाम कन्नड(Kannada) इति । प्राचीनतमासु द्राविडभाषासु (दाक्षिणात्यभाषासु) अन्यतमा कन्नडभाषा स्वस्य विविधैः रूपैः ५०दशलक्षजनैः भाष्यते । भारतदेशस्य अधिकृतासु २३भाषासु इयम् अन्यतमा अस्ति । अपि च कर्णाटकराज्यसर्वकारस्य व्यावहारिकी भाषा अस्ति । सर्वसधारणं 1५०० वर्षेभ्यः कन्नडं सम्भाषणभाषारूपेण प्रचलिता अस्ति । कन्नडभाषायाः लिपिः लेखनपद्धतिः च 1५०० वर्षेभ्यः पूर्वम् एव आसीदिति शोधकानाम् अभिप्रायः । अस्याः भाषायाः प्राथमिकं संवर्धनं तु अन्यद्राविडीयाः (दाक्षिणात्यम्) भाषाभिवृद्धेः सादृश्यम् अस्ति । तदनन्तरस्य भाषाभिवृद्धौ संस्कृतस्य प्राकृतस्य मराठेः पारस्याः च प्रभावः दृश्यते ।

कर्णाटकराज्यम्

कर्णाटकराज्यं भारतस्य दक्षिणदिशि स्थितम् अस्ति । सुन्दरतायै, विकासाय च इदं राज्यं भारते प्रसिद्धम् अस्ति । राज्यमिदं “यात्रिकेभ्यः स्वर्गः” इति अपि कथ्यते । कन्नड-भाषायाः “कुरूनाडु” इति शब्देन “कर्णाटक” इति नामोत्पत्तिः जाता । तस्यार्थः भवति यत् – भव्यं, उच्चभूमिः च । २००० वर्षप्राचीनः अस्ति अस्य राज्यस्येतिहासः । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति । कर्णाटकस्य राजधानी बेङ्गलुरु अस्ति । एतत् कर्णाटकस्य आग्नेयभागे विराजते ।

केनडा

केनडा उत्तर-अमेरिका महाद्वीपे स्‍थित: ।

राजधानी - ओटवा

भाषा - इंगलिश, फ्रांसी

केनोपनिषत्

केनोपनिषत् (Kenopanishat) प्राचीनासु दशसु उपनिषत्सु अन्यतमा । अस्यां ३४ मन्त्राः विद्यन्ते । अस्याः उपनिषदः प्रमुखः विषयः भवति ब्रह्मविद्या । परब्रह्मस्वरूपः परमात्मा इन्द्रियातीतः, सः एव सर्वप्रेरकः इत्ययं विषयः समीचीनतया वर्णितः वर्तते । ब्रह्मज्ञानिनः लक्षणानि कानि इत्येतं विषयं मनोरञ्जकरीत्या विरोधाभासयुक्तैः वचनैः वर्णितवन्तः सन्ति । कापि देवता न स्वतन्त्रा, सर्वाः देवताः परब्रह्मणा प्रेरिताः इत्ययं सिद्धान्तः अत्र प्रदर्शितः अस्ति । 'एकं सद्विप्रा बहुधा वदन्ति' इत्यस्य वा 'एकमेवाद्वितीयम्' इत्यस्य श्रुतिवाक्यस्य मनोहरं व्याख्यानरूपं वर्तते केनोपनिषत् । परमसत्यम् एकमेव विद्यते, तच्च अतीन्द्रियं विद्यते इत्येतत् तत्त्वद्वयमेव अत्र कविभिः चर्चितः प्रमुखः विषयः ।

द्वितीयं खण्डं चतुर्थखण्डस्य द्वित्रान् श्लोकान् विहाय अवशिष्टभागेषु भाषा अतीव सरला विद्यते । द्वितीयखण्डस्य क्लेशस्य हेतुः भवति तत्र उपयुक्ता सङ्क्षेपपद्धतिः । चतुर्थखण्डस्य क्लेशस्य मूलं भवति तत्र उपयुक्तानि पारिभाषिकपदानि ।

परब्रह्म अतीन्द्रियवस्तु विद्यते । सृष्टजगति विद्यमानानि सूक्ष्मतमानि वस्तूनि विविधैः यान्त्रिकोपकरणानां साहाय्येन द्रष्टुं शक्यानि, अभिज्ञातुं शक्यानि । किन्तु येन वस्तुना इयम् इन्द्रियशक्तिः निर्मिता वर्तते तस्य दर्शनं कथम् ? नेत्राभ्यां जगत् द्रष्टुं शक्यम्, किन्तु नेत्रयोः दर्शनं कथम् ? अतः एव तत् परब्रह्म नेत्रयोः नेत्रं, कर्णयोः कर्णः इति निर्दिष्टम् । नेत्रयोः नेत्रं नाम नेत्रदर्शनस्य सामर्थ्यं यस्मिन् विद्यते सः इत्यर्थः । नेत्रं यया शक्त्या द्रष्टुं शक्नोति तस्याः शक्तेः दाता, प्रेरकः वर्तते सः । अतः सः इन्द्रियैः अगोचरः, इन्द्रियातीतः च ।

आर्यऋषीणां दृष्टिः अत्यन्तं सूक्ष्मा आसीत् इति प्रतिपदम् अस्माभिः अवगम्यते । प्रत्येकस्मिन् विषये अपि मूलतत्त्वानाम् अन्वेषणं तेषां सहजः स्वभावः आसीत् ।

केरळराज्यम्

केरळ-राज्यं भारतस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । अस्य मूलनाम “चेरळम्” इति आसीत् । मलयाळ-भाषायां “नारिकेलस्य देशः” इति तस्य अर्थः भवति । पुरा “मलनाडु”, “भार्गवक्षेत्रं”, “चेरल” च अस्य राज्यस्य नामानि आसन् । मौर्यशासकस्य अशोकस्य कस्मिंश्चित् शिखालेखे अस्य राज्यविषये “केरळस्य पुत्रः” इति उल्लेखितम् अस्ति । केरळराज्ये कैरळी अथवा मलयाळम् इत्येषा भाषा उपयुज्यते‌। केरळराज्यस्य सीमा पश्चिमे अरबीयसमुद्रः, पूर्वे दक्षिणे च तमिऴ्‌नाडु, उत्तरे कर्णाटकं च।

गुजरातीभाषा

गुजराती(ગુજરાતી)(Gujarathi) भाषा भारतस्य राज्याङ्गे उल्लिखितासु पञ्चदशसु भाषासु अन्यतमा । गुजरातराज्यस्य राज्यभाषा । भारतदेशस्य विविधेषु भागेषु एशिया-आफ्रिकाखण्डेषु च गुजरातभाषाभाषिणः निवसन्ति । ६५,५०,००,००० जनाः गुजरातिभाषया भाषन्ते । इयं भाषा भारतीय-आर्यभाषासु अन्यतमा । गुजरातराज्यस्य पूर्वसीमायाम् ईशान्यसीमायां च राजस्थानीभाषा विद्यते इत्यतः अनयोः भाषयोः सङ्गमनं दृश्यते । अधिकतया भाषमाणासु भाषासु २६ तमे स्थाने विद्यन्ते इयं भाषा । महात्मा गान्धिः, सरदार् वल्लभभायी पटेलः, स्वामी दयानन्दसरस्वती, मोरारजी देसायी, जे.आर्.डि.टाटा, धीरूभाई अंबानी, महम्मद् आलि जिन्ना इत्येतादृशानां बहु प्रसिद्धजनानां मातृभाषा अस्ति गुजरातीभाषा ।

छत्तीसगढराज्यम्

छत्तीसगडराज्यं (Chhattisgarh) भारते स्थितं किञ्चन राज्यम् अस्ति । इदं नूतनतया निर्मितम् अस्ति । मध्यप्रदेशराज्यस्य कानिचनमण्डलानि मेलयित्वा पृथक्राज्यं सा.श.२००० तमे वर्षे नवम्बरमासस्य प्रथमदिने कृतम् । अस्मिन् राज्ये ३५ जातीयजनाः निवसन्ति । नाल्कार् बैरा, मुण्डमदिया, नाहर् इत्यादयः जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्यं, लोहोद्यमं च कुर्वन्ति । हजारीबाग् प्रपातप्रदेशे एतेषां जीवनदर्शनं कर्तुं शक्यते । अत्र प्राचीनकाले गुहासु निर्मितभित्तिचित्राणि करणपुरं, सौत् पहार्, इत्यदिषु स्थानेषु सन्ति । एतत् दृष्ट्वा इङ्ग्लैण्ड् देशस्य स्टोन् देञ्ज् स्थानस्य स्मरणं भवति । बस्तारप्रदेशः जगदलपुर् मण्डलेऽस्ति । छत्तीसगढ मध्यभारतस्य किञ्चन राज्यं भवति । मध्यप्रदेशस्य आग्नेय कोणे विद्यमानः प्रदेशः छत्तीसगढ भवति। अत्र "छत्तीसगढि" भाषया व्यवहरन्ति स्म जनाः। ’२७’ मण्डलानि सन्ति छत्तीसगढ राज्ये । छत्तीसगढराज्यस्य राजधानी रायपुर भवति । भारतीय राज्येषु विस्तीर्णे अस्य राज्यस्य दशमस्थानं भवति । अस्य विस्तारः ५२,१९९ चतुरस्रमैलपरिमितं भवति । अस्य राज्यस्य वायव्ये मध्यप्रदेशः, पश्चिमे महाराष्ट्रा, दक्षिणे आन्ध्रप्रदेशः, पूर्वे ओरिस्सा, ईशान्ये झारखण्डः, उत्तरे उत्तरप्रदेशादयः सन्ति । “छत्तीस् घरी” एषा भाषा हिन्दीभाषायाः कश्चन प्रकारः। एषा भाषा अस्य राज्यस्य मुख्या भाषा अस्ति । ’द्राविडभाषया’ प्रभाविताः भाषाः प्रान्तीयाः भाषाः अपि अत्र सन्ति । छत्तीसगढमूलतः किञ्चन ग्रामीणं राज्यम् अस्ति । नगरप्रदेशे केवलं २०% प्रतिशतं जनाः वासं कुर्वन्ति । छत्तीसगढराज्यस्य अद्यतनमौल्याधारेण २००४ तमे संवत्सरे १२ बिलियन् यु एस् डालर् गृहोत्पन्नम् आसीत् इति । अस्य राज्यस्य मध्यप्रदेशात् विभागकरणानन्तरं ३०% प्रतिशतं खनिजस्य उत्पादनं कुर्वन्ति ।

तमिळभाषा

तमिऴ् (Tamil) (தமிழ்) द्राविडभाषापरिवारस्‍य एका भाषा। तमिऴ्‌भाषा पृथिव्‍यां प्राचीनतमभाषासु अन्यतमा। द्रविडपरिवारस्य भाषासु इयम्‌ अन्याभ्यः अधिकं पुरातनी समृद्धा च। तमिऴ्‌नाडुराज्ये जनाः तमिऴ्‌भाषया वदन्ति। एषा भारते श्रीलङ्कायां सिङ्गापुरे च कार्यालयीयभाषा वर्तते। एषा भारते तमिऴ्‌नाडुराज्यस्य पुदुच्चेर्याः अपि कार्यालयीयभाषा वर्तते । अस्मिन् द्विसहस्रतमे शताब्दे इयं भाषा भारतशासनद्वारा शास्त्रीयभाषात्वेन उद्घोषिता । मॉरीशस्-मलेशियिदेशयोः अपि अनया भाषया महत्त्वपूर्णं स्थानं प्राप्तम् अस्ति।

तेलुगु

तेलुगुभाषा (Telugu) द्राविडभाषा परिवारस्‍य एका भाषा अस्ति । एषा दक्षिणभारते विद्यमानस्य आन्ध्रप्रदेश,तेलंगाणा राज्ययोः यानाम्(पुदुचेरी) केन्द्रशासित प्रदेशस्य च अधिकारभाषा वर्तते । इयं भाषा भारतस्य प्रान्तीयभाषासु प्रथमे स्थाने, तथा च विश्वस्तरे लोकैः भाष्यमाणासु भाषासु त्रयोदशे स्थाने च तिष्ठति । अपि च भारते राष्ट्रभाषायाः हिन्द्याः अनन्तरं द्वितीयं स्थानम् आवहति । अस्मिन् जगति उपसार्धनवकोटि (९.३२ कोटिः ) जनाः ( प्रमाणम् अपेक्ष्यते ) इमां तेलुगुभाषां भाषन्ते । ३१-१०-२००८ तमे दिनाङ्के भारतीयसर्वकारेण अतिप्राचीनासु राष्ट्रीयभाषासु संस्कृततमिलभाषाभ्यां सहैव तेलुगुभाषा अपि अन्तर्भाविता।

नेपालदेशः

नेपाल एशिया महाद्वीपे दक्षिणे कश्चित् देश: अस्ति । नेपालस्य उत्तरे चीनदेश: अस्ति । पश्चिमे, पूर्वे एवं दक्षिणे भारत देश: अस्ति ।

हिमालयस्य सानुप्रदेशे स्थितं राष्ट्रं परितः भूभागेनैव आवृतम् अस्ति । नेपालस्य उत्तरे त्रिविष्टपम् (टिबेट) अस्ति। परितः विश्वस्य अत्युन्नतपर्वताः १० सन्तीति भावयामश्चेत् तेषु अष्टपर्वताः नेपाले एव सन्ति । नेपालस्य विस्तीर्णं १४११८१ च.कि.मी । जनसङ्ख्या २.७ कोटिः । राष्ट्रस्य राजधानी काष्टमण्डपः (काठमान्डु/काठमाडाैं) ।

बिहारराज्यम्

बिहार(हिन्दी:बिहार) भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम् । एतस्य राजधानी पाटना अथवा पाटलीपुत्रम् अस्ति । अस्य राज्यस्य पूर्वभागे पश्चिमवङ्गराज्यं, दक्षिणभागे झारखण्डराज्यञ्च विद्यते । 'बिहार'इत्येतत् पदं प्रायशः 'बौद्धविहारम्' इत्यत्र विद्यमानस्य विहारशब्दस्य विकृतरूपम् इति भासते। इदं राज्यं गङ्गानद्याः तस्याः उपनदीनाञ्च समृद्धक्षेत्रे विद्यते । प्राचीनकाले विशालसाम्राज्यानां मूलस्थानम् आसीत् इदं राज्यम् अधुना देशस्य अर्थव्यवस्थायाः कृते योगदाने अन्तिमस्थाने विद्यते।

भारतम्

निबन्धोऽयं भारतदेशः इति विषये लिखितः अस्ति, भारतम् इति ग्रन्थविषये महाभारतम् इत्येतत् पश्यतु।

भारतम्(IPA:/bʰɑːrɔt̪ɔm/), आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे स्थितं गणराज्यम् वर्तते । जनसंख्यादृष्ट्या एषः विश्वे द्वितीये स्थाने विद्यते। विश्वे प्रसिद्धो जनतन्त्रयुत‌: देश: एष:।

एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः। एषः भूभागः स्वस्य सांस्कृतिकसम्पदया प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्टीण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् । भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य । सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । भारतीयसंसदे सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।

मराठीभाषा

मराठी आर्य-भाषापरिवारस्य भाषा अस्ति। अधिकतया माहाराष्ट्रराज्ये भाष्यते । महाराष्ट्रराज्यस्य राजभाषात्वेन इयं भाषा प्रचलिताऽस्ति।

वेदाङ्गम्

वेदाङ्गं वेदाध्यनस्य अधिकारप्राप्त्यै अध्येतव्यांशः। वेदाङ्गानि षड् सन्ति। अङ्गमित्यस्य पदस्य व्युत्पत्तिः " अङ्ग्यते ज्ञायते अनेन इत्यङ्गम्" इत्यस्ति । वेदानां भाषा भावश्च दुरूहौ इत्यतः वेदार्थावबोधाय वेदाङ्गानाम् अपेक्षा भवति । अत एव - "षडङ्गो वेदोध्येतव्यः, साङ्गं वेदमधीत्यैव" इत्यादयः उक्तयः जाताः ।

"शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।

ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु"॥

इत्यनेन शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दः, ज्योतिषं च वेदाङ्गानि इति ज्ञायते । एतानि षट् शास्त्राणि इत्यपि प्रसिद्धानि सन्ति। एतेषां वेदाङ्गानाम् उल्लेखः गोपथब्राह्मणे बोधायनधर्मसूत्रे गौतमधर्मसूत्रे रामायणसदृशप्राचीनग्रन्थेषु च उपलभ्यते ।

"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।

पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश" ।

इत्यनेन चतुर्दशसु विद्यासु वेदाङ्गानां स्थानं प्रथमम् अस्ति ॥

वेदोपि कश्चित्पुरुषकल्पः । अतः तस्य वेदपुरुषस्य किमङ्गं किमु शास्त्रमिति उच्यते यथा-

"छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्योतिषं चक्षुषी च ।

शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं वेदस्याङ्गान्येवमाहुर्मुनीन्द्राः ॥"

एवं साङ्गवेदज्ञानम् एव पूर्णत्वं पूज्यत्वं च ददाति ॥व्याकरणं वेदस्य मुखं इतिवत् ज्योतिषं वेदस्य चक्षुः इति स्तूयते।

संस्कृतभारती

संस्कृतभारती (Samskrita Bharati) इति काचित् संस्था या च संस्कृतस्य संरक्षणार्थं ,संवर्धनार्थं , प्रसारणार्थं च अविच्छिन्नरूपेण निरन्तरं कार्यं कुर्वती अस्ति । एतस्याः प्रधानकार्यालयः देहल्यां विद्यते । जगति संस्कृतभाषां व्यावहारिकाभाषात्वेन आनेतुं श्रममाणा अस्ति एषा संस्था ।

संस्कृतम्

संस्कृतम् ({संस्कृतोच्चारणम् : [s̪ɔŋ̊s̪kr̩t̪ɔm])

जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। भारती सुरभारती अमरभारती अमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृता वाक् दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।

भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।

व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति।

संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी।

स्थितप्रज्ञस्य का भाषा...

स्थितप्रज्ञस्य का भाषा () इत्यनेन श्लोकेन अर्जुनः प्रप्रथमं प्रश्नं भगवन्तं श्रीकृष्णं पृच्छति । एतावता भगवान् श्रीकृष्णः मुख्यतः कर्मयोगस्य, साङ्ख्ययोगस्य च चर्चां कृत्वा पूर्वस्मिन् श्लोके उपसंहारम् अकरोत् । प्रथमे चरणे कर्मयोगस्य, विवेकजन्यवैराग्यस्य उल्लेखः कृतः । द्वितीये चरणे साङ्ख्ययोगस्य उल्लेखश्च कृतः । उपसंहारोत्तरं सारत्वेन यत्किमपि अर्जुनेन ज्ञातं, तत्र "भगवता उक्तम् अतः अविचिन्त्य स्वीकरणीयम्" इति अर्जुनस्य भावना नासीत् । सः प्रत्येकस्य विषयस्य चिन्तनं कुर्वन् आसीत् । यत्र यत्किमपि तेन न ज्ञातम् उत स्पष्टतायाः आवश्यकता आसीत्, तत्र अर्जुनः प्रश्नं करोति । अत्र अर्जुनः स्थितप्रज्ञस्य लक्षणं ज्ञातुं भगवते चतुरः प्रश्नान् पृच्छति ।

हिन्दी

हिन्दीभाषा सांविधानिकरूपेण भारतस्य प्रथमा राजभाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते । विश्वे अधिकं भाषमाणायाः चीनीभाषायाः अनन्तरं स्थानं हिन्दीभाषायाः । उत्तरभारते अस्याः उपयोगः अधिकः । भारते अन्येषु देशेषु च विद्यमानाः हिन्दीभाषाभाषिणः ६० कोट्यधिकाः सन्ति । एते हिन्दीभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च । फिजी, मारिशस्, गयाना, सूरीनाम् इत्येतेषु देशेषु अधिकाः, नेपालदेशे केचन च हिन्दीभाषया सम्भाषन्ते । हिन्दीभाषा राष्ट्रभाषा, राजभाषा, सम्पर्कभाषा, जनभाषा इत्यादीनि सोपानानि आरुह्य विश्वभाषास्थानस्य अलङ्करणे अग्रेसरा वर्तते । भाषाविकासक्षेत्रे कृतपरिश्रमवतां भाषाविज्ञानिनां भविष्यवाणी हिन्दीभाषाप्रेमिणां सन्तोषदायिका अस्ति । ते वदन्ति यत् विश्वस्तरे अन्ताराष्ट्रियमहत्त्वम् आप्नुवत्सु भाषासु हिन्दी प्रमुखा अस्ति इति ।

अन्यासु भाषासु

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.