नूरजहान्

नूर्जहान् (जीवितकालः - क्रि.श.१९२६तमवर्षतः क्रि.श.२०००पर्यन्तं जीवितकालः) उर्दूहिन्दीभाषयोः चलच्चित्रसङ्गीतस्य प्रसिद्धा गायिका अभिनेत्री च । स्वस्य अतिमधुरकण्ठेन सुन्दराभिनयेन च चत्वरदककालं दर्शकानानं श्रोतॄणां मनस्सु स्थिरा आसीत् ।

नूरजहान्
Noor Jehan in Zeenat

बाल्यं जीवनं च

नूरजहान् इत्यस्याः गायिकायाः जन्म क्रि.श. १९२६तमे वर्षे पञ्जाबरज्यस्य कस्मिंश्चित् लघुनगरे मध्यमवर्गस्य कुटुम्बे अभवत् । अस्याः बाल्यस्य नाम अल्लाहवासी इति आसीत् । अस्य अर्थः नूर् जहान् इति अतः एतदेव नाम अभवत् । परिसरस्य सामाजिकाः वदन्ति स्म यत् नवजातायाः अस्याः रोदनं श्रुत्वा अस्याः पितृभगिनी "अस्याः रोदने अपि सङ्गीतस्य लयः अस्ति " इति उक्तवती । अग्रे नेपथ्यगायिका भवतीति तदा एव सर्वे वदन्ति स्म । अस्यः पितरौ चलच्चित्रमन्दिरे कार्यं कुर्वतः स्म । किन्तु तयोः रुचिः सङ्गीते अपि आसीत् । गृहपरिवारस्य सङ्गीतवातवरणस्य कारणेन नूरजहन् अपि सङ्गीतस्य दिशि आकृष्टा । कालान्तरेण एषा गायिका भविष्यामीति स्वप्नं वेतुम् आरब्धवती । अस्याः सङ्गीताभिरुचिं ज्ञात्वा माता अस्मिन् एव मार्गे अग्रे गन्तुं प्रेरणां प्रोत्साहनं च दत्तवती । अपि च अस्याः सङ्गीताभ्यासर्थं गृहे एव व्यवस्थां प्रलपितवती । नूर् जहान् सङ्गीतस्य प्राथमिकीं शिक्षां कज्जनबायी इत्यनया, शास्त्रीयसङ्गीतम् उस्ताद् गुलाम मोहम्मद् इत्यनेन, उस्ताद बडे़ गुलाम अली खान् इत्यनेन च प्राप्तवती । क्रि.श. १९४७तमे वर्षे देशविभनस्य अनन्तरं नूरजहान् पाकिस्तानं गन्तुं निश्चयं कृतवती । अभिनेता दिलीपकुमारः भारते एव स्थातुं सूचितवान् । तदा सा यत्राहं जाता तत्रैव वासामि इति उक्तवती । कालान्तरेण क्रि.श.१९६३तमे वर्षे भारतस्यगानक्षेत्रं त्यक्त्वा प्राकिस्तानं गतवती । क्रि.श.१९८२तमे वर्षे भारतस्य इण्डिया टाकी संस्थायाः शतमानोत्सवसमारोहे भारतम् आगन्तुम् आमन्त्रणं प्राप्तवती । तदा तत्र आगत्य श्रोतॄणां प्रार्थनम् अङ्गीकृत्य " आवाज़् दे कहां है दुनिया मेरी जवां है " इति गीतं प्रस्तुतवती । क्रि.श.१९९२तमे वर्षे एतं सङ्गीप्रपञ्चम् एव त्यक्तवती । क्रि.श.२०००तमवर्षस्य डिसेम्बर् २३दिने हृदयस्तम्भनेन दिवङ्गता ।

वृत्तिजीवनम्

नूर्जहान् गायिकया क्रि.श. १९३०तमे वर्षे इण्डियन् इति पताकायाः अधः निर्मिते हिन्द् के तारे इति चलच्चित्रे गातुम् अवकाशः प्राप्तः । एतदन्तरम् अस्याः परिवारः पञ्जाबतः कोलकोतानगरम् अगच्छत् । तत्र अनया ११मूकचलच्चित्रेषु अभिनेतुम् अवकाशः लब्धः । क्रि.श.१९३१तमे वर्षपर्यन्तं बालकलावित् रूपेण क्षेत्रे परिचिता अभवत् । क्रि.स.१९३२तमे वर्षे प्रदर्शिते " शिशु पुन्न " इति चलच्चित्रे अभिनीतवती । एतत् अस्याः अभिनयवृत्तौ प्रथमं संवादयुक्तं चलच्चित्रम् । एवमेव एषा कोहिनूर् युनैटेड् आर्टिस्ट् इति पताकायाः तले कानिचन चित्राणि कृतवती । कोलकतानगरे एषा प्रसिद्धचलच्चित्रनिर्मातरं पञ्चोलीमहोदयं मिलितवती । पञ्चलीवर्यः एतस्यां भविष्यतः अत्युत्तमाम् अभिनेत्रीं दृष्टवान् । अतः पाञोली स्वस्य नूतने " गुल् ए बकावली " इति चलच्चित्रे अस्याः अवकाशं कल्पितवान् । अस्मिन् चलच्चित्रे नूरजहान् "साला जवानियां माने और् पिञ्जरे दे विच् " इति गीतं गीतवती । समान्यतः त्रीणिवर्षाणि कोलकतानिवासानन्तरं पुनः लाहौर् गतवती । तत्र अस्याः मेलनं प्रसिद्धे सङ्गीतकारेण जीये चिश्ती इत्यनेन अभवत् । एषः वेदिका कार्यक्रमेषु सङ्गीतसंयोजनं करोति स्म । कस्मिंश्चित् वेदिकायाः कार्यक्रमे नूरजहान् परिचयं कारयित्वा गापयितवान् । वर्तनरूपेण सार्धसप्त निष्कान् दत्तवन् यत् तस्मिन् काले महामौल्यम् आसीत् । क्रि.श.१९३९तमे वर्षे निर्मिते " गुल् ए बकावली " इति पञ्चोली सङ्गीतमयचलच्चिस्य सफलतायाः अनन्तरं नूरजहान् चलच्चित्रोद्यमे अचलतया प्रतिष्टापिता । " खान् दान् " इति चलच्चित्रे अस्याः अभिनये चित्रितं " कौन् सी बदली में मेरा चान्द् है आ जा " गीतं लोके बहुविश्रुतम् । एतदनन्तरम् एषा मुम्बै नगरं गतवती । एतन्मध्ये अस्याः विवाहः शौकत् हुसेन् इत्यनेन सहोद्योगिना सह विवाहः अभवत् । नूरजहान् प्रतिनित्यं स्वस्य स्वरेण सह विशिष्टान् प्रयोगान् करोति स्म । एषा स्वरमाधुर्येण गायिकानां नायिका इति सम्बोध्यते स्म । एतस्मिन् अवसरे तस्याः अभिनयगानयुक्तानि "दुहायी,(क्रि.श. १९४३) दोस्त्, बडी माँ,(क्रि.श. १९४४) विलेज् गर्ल् (क्रि.श. १९४५) " इत्यादीनि चलच्चित्राणि सफलानि अभवन् । एतेषु चलच्चित्रेषु अस्याः स्वरस्य इन्द्रजालः श्रोतॄणां चित्तापहरकः अभवत् । मुम्बै चलच्चित्रजगति एतां " मल्लिका ए तरन्नम् " इति कथयन्ति स्म । क्रि.श. १९४५तमे वर्षे अस्याः गीतानाम् " जीनत् " इति अन्यदेकं चलच्चित्रं लोकार्पितम् । अस्य चित्रस्य "आहें न भरी शिकवें ना किए, कुछ भी न जुवां से काम लिया " किञ्चित् कव्वालीगीतं श्रोतॄणां मध्ये अतीव लोकप्रियम् अभवत् । एषा क्रि.श.१९४६तमे वर्षे ख्यातस्य निर्मातानिदेशकस्य महबूब् खानस्य "अनमोल घडी " इति चलच्चित्रे अवकाशं प्राप्तवती । अस्य चित्रस्य महता स्वरसंयोजकेन नौशादेन सङ्गीतबद्धाणि अनया गीतानि "आवाज दे कहां है, आजा मेरी बर्बाद मोहब्बत के सहारे, जवां है मोहब्बत " इति गानानि अद्यापि लोकप्रियानि सन्ति । क्रि.श.१९४७ तमे वर्षे विभजनस्य अनन्तरं पाकिस्तानं गतवती किन्तु स्वस्य चलच्चित्रचीवनं पालितवती एव । सामान्यतः वर्शत्रये पाकिस्तानस्य चलच्चित्रोद्यमे आत्मानं सुस्थापितवती । अग्रे 'चैनवे ' इति चलच्चित्रस्य निर्माणं निदेशनञ्च कृतवती । चित्रोद्यमे एतत् चित्रम् अधिकं धनसङ्ग्रहम् अकरोत् । एतदनन्तरं क्रि.श. १९५२तमे वर्षे प्रदर्शितं चलच्चित्रं " दुपट्टा " ततोऽप्यधिकधनसङ्ग्रहस्य साफल्यम् अवाप्नोत् । अस्मिन् चित्रे नूरजहान् स्वरः एतावान् प्रसिद्धः अभवत् भारते अपि सर्वत्र अनुरणनं भवति स्म । अखिलभारतीयाकाशवाणीतः श्रीलङ्काकाशवाणीपर्यन्तं सर्वत्र अस्याः दुपट्टा गीतानि प्रसारप्रसिद्धिम् आप्नोत् । एतन्मध्ये क्रि.श.१९५३तमे वर्षे गुलनार् , क्रि.श. १९५५तमे वर्षे फतेखान्, क्रि.श. १९५६तमे वर्षे इन्दज़ार्, क्रि.श. १९५८तमे वर्षे अनार्कली, क्रि.श. १९५९तमे वर्षे परदेसिया,कोयल्, क्रि.श. १९६१तमे वर्षे मिर्जा गालिब् इत्यादिषु चलच्चित्रेषु अभिनयं कृत्वा प्रेक्षकानां मनोरञ्जनं कृतवती ।

विशेषताः

- नूरजहान् प्रथमा पाकिस्तानी महिलाचलच्चित्रनिर्मात्री ।
- एषा न केवलं निर्मात्री किन्तु, गायिका , अभिनेत्री, सङ्गीतसंयोजिका अपि ।
- इयं हिन्दी, उर्दू, सिन्धी, पञ्जाबी इत्यादिषु भाषासु १०सहस्राधिकगीतानि गीतवती ।
- क्रि.श. १९५५तमे वर्षे बडी मा इति चलच्चित्रे लता मङ्गेश्कर आशा भोंसले द्वाभ्यां सह अभिनयं कृतवती ।
- क्रि.श. १९४५ तमे वर्षे एषा दक्षिणैशियायाः प्रथमा महिला यस्याः स्वरेण कव्वालीगीतस्य ध्वनिमुद्रणम् अभावत् ।
- एषा १२मूकचलच्चित्रेषु अपि अभिनयं कृतवती ।

पुरस्कारसम्मानानि

  • नूरजहान् मल्लिका ए तरन्नम् सम्माननं प्राप्तवती ।
  • एषा क्रि.श.१९६६तमे वर्षे पाकिस्तानसर्वकारस्य तमगा ए इम्तियाज इति पुरस्कारं प्राप्तवती ।

प्रमुखचलच्चित्राणि

Year Film
क्रि.श.१९३९तमे वर्षे गुल् बकवलि
इमान्दार्
प्याम् ए हक्
क्रि.श.१९४०तमे वर्षे सजनि
यम्लत् जाट्
क्रि.श. १९४१तमे वर्षे चौदरि
रेड् सिग्नल्
उम्मीद्
सुश्रल्
क्रि.श. १९४२तमे वर्षे चान्दनि
धीरज्
फर्याद्
खानदान्
क्रि.श.१९४३तमे वर्षे नादान्
दुहि
नौकर्
क्रि.श.१९४४तमे वर्षे लाल् हवेली
दोस्त्
क्रि.श.१९४५तमे वर्षे ज़ीनत्
गावों की गोरी
बडी मा
भयी जान्
क्रि.श.१९४६तमे वर्षे अनमोल् घडी
दिल्
हम् जोली
सोफिया
जदूगर्
महाराणा प्रताप
क्रि.श.१९४७तमे वर्षे मिर्ज़ा सहिबान्
जगद्गुरु
अबिदा
मिराबायी
क्रि.श.१९५१तमे वर्षे चानवी
क्रि.श.१९५२तमे वर्षे दुपट्टा
क्रि.श.१९५३तमे वर्षे गुल्जार्
अनार्कली
क्रि.श.१९५५तमे वर्षे पतेह खान्
क्रि.श.१९५६तमे वर्षे लक्त ए जिगर्
इन्तज़ार्
क्रि.श.१९५९तमे वर्षे नूरन्
क्रि.श.१९५८तमे वर्षे छूमन्तर्
अनार्कलि
क्रि.श.१९५९तमे वर्षे नीन्द्
परदेसीयाँ
कोयेल्
क्रि.श.१९६१तमे वर्षे मिर्ज़ा घलिब्

विशेषावलोकनम्

बाह्यानुबन्धाः

भारतम्  भारतस्य नेपथ्यगायकाः

अन्यासु भाषासु

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.