ताम्रम्

विधाः

ताम्रं

  1. म्लेच्छम्
  2. नेपालकम् - चेति द्विविधम् ।

सितकृष्णारुणप्रायम्, अतिवामि, कठोरकं, क्षालितं च म्लेच्छम् । कृष्णं, सुस्निग्धं, मृदुलं शोणं घनघातक्षमं गुरु निर्विकारं गुणश्रेष्ठं नेपालताम्रम् ।

पाण्डुरं कृष्णशोणं च लघु, स्फुटनसंयुतं रूक्षाङ्गं सदलं यत्ताम्रं तद्रसकर्माणि नेष्यते । ताम्रनिर्मलपत्राणि निम्बाम्बुसिन्धुना लिप्त्वा (सिन्धु - White borax) सौवीरकक्षेपात् ध्मात्वा विशुध्यति एकवारतः । सूक्ष्माणि ताम्रपत्राणि गोमूत्रे पञ्चयामकं क्षिप्त्वा भाण्डे रसेन तद्विगुणं गन्धकं दत्त्वा अम्लपर्णीं प्रपिष्य मर्दितं भाण्डे सम्यङ्-निरुध्य तमग्निं यामकं ज्वालयेद्यदि तदा तद्भस्मीभवति इति ताम्रभस्मविधानेषु अनेकेषु अन्यतममत्रोदाहरणाय निर्दिष्टम् ।

ताम्रस्य चिहनं Cu ( लाटिन् भाषायां Cuprum शब्दस्य संक्षिप्तं )

सम्बद्धाः लेखाः

उत्तर-अमेरिकाखण्डः

उत्तरामेरिका एकः महाद्वीपः वर्तते। सा पसिफिक्-अट्लाण्टिक्महासागरयोः मध्ये स्थिता। २४,२५८,६६४ च कि मी विस्तारयुक्तः अयं विशालः खण्डः केनडा, वेस्टिण्डिस्, ग्रीन्लेण्ड्, मध्यामेरिका, मेक्सिकोप्रदेशैः युक्तः अस्ति । अस्मिन् विपरीतं वातावरणं, विविधसंस्कृतीनां मिश्रणम्, अत्यधिका सम्पत्तिः, अत्याधुनिकं तन्त्रज्ञानम्, अनेकाः विश्वसंस्थाश्च विद्यन्ते । तान्त्रिकज्ञानं, गणकयन्त्रज्ञाने अग्रेसरत्वम्, असङ्ख्यवस्तूनां निर्यातः, युद्धसामग्र्यः, गोधूमोत्पादनम् इत्यादीनाम् आधारेण युक्तः आढ्यखण्डः वर्तते अयम् । प्रबलशक्तिः इत्येतत् अन्वर्थनाम अस्य खण्डस्य अमेरिकासंयुक्तसंस्थानां विद्यते ।

खानिजः

खानिजः ( /ˈkhɑːnɪdʒəhə/) (हिन्दी: खनिज, आङ्ग्ल: Mineral) प्राकृतिकपदार्थः वर्तते । पृथिव्यां शैलेषु बहवः पदार्थाः प्राप्यन्ते । ते पदार्थाः खानिजपदार्थाः कथ्यन्ते । प्राकृतिकतया प्राप्तपदार्थाः भवन्ति येषां निश्चितं रासायनिकं संघटनं भवति तत् खानिजः इति । खानिजं पृथिव्याः शैलपर्पटीषु सर्वत्र प्राप्यन्ते । ते खानिजाः केषुचित् विशेषक्षेत्रेषु, शैलसमूहेषु च सङ्केन्द्रिताः सन्ति । केचित् खानिजाः आर्कटिक-महासागरे, अण्टार्कटिका-महाद्वीपे च प्राप्यन्ते । किन्तु ते खानिजाः दुर्लभाः सन्ति ।

खानिजाः भूवैज्ञानिकदशासु भिन्नप्रकारेषु प्राप्यन्ते । तेषु खानिजेषु मानवीयप्रक्रियया विना प्राकृतिकप्रक्रियया एव निष्पद्यते । तेषां खानिजानां भौतिकगुणाः, वर्णः, घनत्वं, कठोरता, रासायनिकगुणाः दृश्यन्ते ।

गुण्टूरुमण्डलम्

गुण्टूरुमण्डलम् (Guntur District) आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं गुण्टूरुनगरम् ।

जम्बुद्वीपः

जम्बुद्वीपम् एक: महाद्वीपः अस्ति| जम्बुद्वीपम् विशवस्य महिसतम् महाद्वीपः अस्ति| एषः महाद्वीपम् अनेकाणि देशानि अस्ति| भारतवर्ष: एशानि महाद्वीपम् एक: राष्ट्रः अस्ति |भूम्याः सर्वे प्रधानधर्माः प्रधानमताः च जम्बुद्विपात् उद्भवन्। जम्बुद्वीपात् एव बहवः पुरातनसंस्कृतयः अवर्धन्त।

४३ राष्ट्रैः युक्तः अयं खण्डः ४४,३९१,१६३ चतुरस्रकिलोमीटर्मितेन विस्तारेण युक्तः अस्ति । अस्य खण्डस्य भूयान् भागः उत्तरगोलार्धे दृश्यते । इण्डोनेशियादेशस्य भागार्धमात्रं दक्षिणगोलार्धे दृश्यते । दक्षिणस्य १०० तः उत्तरस्य ८०० अक्षांशयोः मध्ये, पूर्वगोलार्धस्य २५० - १९०० रेखांशयोः मध्ये अयं खण्डः विद्यते ।

जम्बुद्वीपस्य देशाः-

इन्दोनेशिया

भारत

पाकिस्तान

बंगलादेश

चीन

जापान

नेपाल

कोरिया

ईरान

सऊदी अरब

अफगानिस्तान

इस्रेल

जार्डन

तुर्की

वियतनाम

मलयेशियाआदयः ।

जलमालिन्यम्

जलमालिन्यं (Water pollution) प्रमुखेषु परिसरमालिन्येषु अन्यतमं विद्यते । सरोवराः, नद्यः, समुद्राः इत्यादिषु अनपेक्षितानां वस्तूनां संयोगेन जलमालिन्यं भविष्यति ।

झारखण्डराज्यम्

झारखण्डराज्यं (Jharkhand)(हिन्दी - झारखण्ड; बेङ्गाली - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ) भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २०००तम वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के निर्मितम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तीसगढराज्यं , दक्षिणदिशि ओरिस्साराज्यं, पूर्वदिशि पश्चिमबङ्गालराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं राञ्ची अस्य राजधानी । जमशेड्पुरम् अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि नाम धनबाद् , बोकारो, हजारीबाग् च । झारखण्डः नाम अरण्यानां प्रदेशः इत्यर्थः । अत्र अधिकतया आदिवासिजनाः निवसन्ति । राज्ये पर्वताः, प्रपाताः, जलपाताः, नद्यः, वनानि च अतीवाकर्षकाणि सन्ति । एतत् राज्यं Pure Pristine , Pictureque इति उक्तवन्तः सन्ति।

बेट्ला, हजारीबाग्, पलामु राष्ट्रियोद्यानानि सन्ति । नेतर् हाट् पर्वतधाम अतीवं सुन्दरं प्रेक्षणीयम् स्थानमस्ति । एतत् स्थानं छोटानागपूरस्य राज्ञी इति निर्दिशन्ति । टोप चाञ्ची , दुमाक् इत्यादीनि अत्रत्यविहारस्थानानि सन्ति ।

तत्त्वम् (रसायनशास्त्रम्)

तत्त्वं शुद्धः रासायनिकपदार्थः अस्ति। एतत् समाणाम् परमाणूणाम् रचयति। स्वर्णः, लोहः, ताम्रम्, कौकिलीयम्, अम्लकरः च सामान्यानि प्रधानानि च तत्तवानि सन्ति। भिन्नानाम् तत्त्वानाम् भिन्नानि परमाणुअङ्कानि सन्ति। परमाणुअङ्कानि एव तत्त्वान् भिन्नानि भवन्ति।

११८ तत्त्वानि सन् २०११ ज्येष्ठमासम् यावत्पर्यन्तम् मानवाः अबोधन्।

केवलम् ९२ तत्त्वानि पृथ्वीलोके विरले अस्ति।

पाषाणयुगम्

पाषाणयुग: नाम प्राचीन: काल: यत्र जनाः शिलाया: उपयोगं केवलं जानन्ति स्म। तदा कानिचन अस्थ्युपकरणानि काष्ठोपकरणानि अपि उपयुक्तानि दृश्यन्ते । जनाः भोजनाय वस्त्रेभ्यः च पशून् घ्नन्ति स्म। यदा मनुष्याः धातूनाम् प्रयोगम् आरभन्त तदा पाषाणकालस्य अन्त्यम् अभवत्। मनुष्याः प्रथमम् ताम्रम् समयोजयन्। ताम्रकाल: पञ्चसहस्रवर्षेभ्यः प्राक् आरभत। पाषाणकाले त्रयः खण्डाः सन्ति। ते पौराणपाषाणकाल: मध्यमपाषाणकाल: नवपाषाणकाल: । नवपाषाणकालीना: कौलालम् अध्यगच्छन्। तदा एव ते लेखनम् अपि अकुर्वन्।

यूरोपखण्डः

यूरोपखण्डः (Europe) सप्तमहाखण्डेषु अन्यतमः । ३७ राष्ट्रैः युक्तः अस्ति अयं खण्डः । दक्षिण-पूर्व-मध्य-वायव्य-उत्तरसमुद्रप्रदेशाः इति अयं खण्डः परिगणयितुं शक्यः । अस्य खण्डस्य जनानां बाह्यलक्षणस्य अनुगुणं काकेसायिड्, नार्डिक्, आल्पैन्, अर्मेनायिड् इत्येते प्रकाराः दृश्यन्ते । अत्र जर्मेनिक्, स्लाव्, केल्टिक्, रोमेण्टिक् इत्यादयः विविधाः भाषाः विद्यन्ते अस्मिन् ।

लोहानि

सुवर्णं रजतं ताम्रं त्रपु सीसकम् आयसं षडेतानि च लोहानि । कृत्रिमौ कांस्यपित्तलौ इत्येके । सुवर्णं रूप्यं ताम्रं लोहम् आरकूटं त्रपु सीसकम् इत्यन्ये ।

सुवर्णम्

रजतम्

ताम्रम्

अयः

पित्तलम्

कांस्यम्

वर्तलोहम्

अन्यासु भाषासु

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.