अर्थशास्त्रम् (शास्त्रम्)

परिचयः

अर्थशास्त्रम् अथर्वणवेदस्य "उपवेदः" इति प्रसिद्धम् । अनादिकालात् राजधर्मोपदेशकम् इदं शास्त्रम् । राज्यस्य भूप्रदेशः प्रकृतयश्च अर्थाः इत्युच्यन्ते । एतस्य अर्थस्य योगं (लाभम्) क्षेमं (संरक्षणम्) च उपदेशयत् शास्त्रम् अर्थशास्त्रम् ।

मनुष्याणां वृत्तिः अर्थः । मनुष्यवती भूमिरित्यर्थः तस्याः लाभोपायं शास्त्रम् अर्थशास्त्रम् - कौटलीयम् अर्थशास्त्रम् ।

दण्डनीतिः इति अर्थशास्त्रस्य पर्यायपदम् । अर्थशास्त्रम् राजधर्मं निरूपयति ।

Chanakya artistic depiction
चानक्य

प्राचीनाः अर्थशास्त्रकाराः

महाभारतस्य शान्तिपर्वणि राजधर्मप्रकरणे प्राचीनानाम् अर्थशास्त्रकाराणाम् उल्लेखः दृश्यते । तदनुसारेण मनुः, बृहस्पतिः, शुक्रः, विशालाक्षः, पराशरः, व्यासः, बाहुदन्तीपुत्रः, वातव्याधिः, कौणपदन्तः, भारद्वाजः, पिशुनः इति दश प्राचीनाः अर्थशास्त्रकाराः इति कौटल्यः स्वकीयेऽर्थशास्त्रे उक्तवान् ।

अर्थशास्त्रग्रन्थानाम् उल्लेखाः

- बाहुदन्तीपुत्रस्य वातव्याधेश्च अर्थशास्त्रग्रन्थौ ग्रन्थरूपेण न प्रकटितावास्ताम् ।
- कौणपदन्तः (भीष्मः), भारद्वाजः (द्रोणाचार्यः) - एतयोः अर्थशास्त्रस्य तत्त्वनिरूपणं महाभारते शान्तिपर्वणि प्रोक्तम् ।
- पिशुनः (नारदः) एतस्य अर्थशास्त्रतत्वानि नारदस्मृतौ द्रष्टुं शक्यन्ते ।

बार्हस्पत्यम् अर्थशास्त्रम्

कीदृशाः मन्त्रिणः भवितुं योग्याः? इत्यस्मिन् विषये बृहस्पतेः मतम् एवमस्ति ।

स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान् शुचीन् ।
तैः सार्धं चिन्तयेत् कार्यं विप्रेणाथ ततः स्वयम् ॥

राजा प्राज्ञान्, मौलान्, स्थिरबुद्धीन्, त्रिकरणेषु शुचीन्, दक्षान् च मन्त्रिस्थाने नियोजयेत् । तैः साकम् करणीयं कार्यमधिकृत्य परिचिन्तनं कुर्यात् । ततः तदेव कार्यं ब्रह्मणेन (पुरोहितेन) सह चिन्तयेत् । तदनन्तरं स्वयमेकाकी सन् चिन्तयेत् । इति बृहस्पतेः अभिप्रायः ।

शुक्राचार्यप्रणीतम् अर्थशास्त्रम्

"भार्गव नीतिसारः" इति ग्रन्थ एवेदम् ।

विशालाक्षनाम्ना प्रणीतम् अर्थशास्त्रम्

एतदेकम् अर्थशास्त्रं विद्यत इति याज्ञवल्क्यस्मृतेः बालक्रीडानाम व्याख्याने विश्वरूपाचार्येण श्लोकोऽयम् उद्ध्रियते यथा -

वन्यान् वनगतैर्नित्यं मण्डलस्थान् तथाविधैः ।
चारैरालोच्य सात्कुर्यात् जिगीषुर्दीर्घदूरदृक् ॥ इति । ग्रन्थोऽयं नोपलभ्यते ।

कौटलीयम् अर्थशास्त्रम्

  1. JS Rajput (2012), Seven Social Sins: The Contemporary Relevance, Allied, ISBN 978-8184247985, pages 28-29

अन्यासु भाषासु

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.